________________ 316] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 83 83 स्वर्त 84 पथुण गतौ' / स्वर्तयति / अषोपदेशत्वाद् “णिस्तोरेवा०" 2 / 3 / 37 इति न षत्वम् , सिस्वर्तयिषति / षोपदेशोऽयमिति नन्दी / "णिस्तोरेवा." 2337 इति षत्वे सिष्वर्तयिषति / अयं कृच्छजीवनेऽपीत्यन्ये // अथ थान्ताश्चत्वारः // '84 पथुण्' / उदित्चान्ने पन्थयति, परिपन्थयति // '85 अथण प्रतिहर्षे' / प्रतियत्ने इत्यन्ये / श्राथयति / श्रथण बन्धने च [ 9 / 396 ], इति युजादौ पठिष्यमाणोऽपि अर्थभेदादिह पुनरधीतः / आत्मनेपदे न रूपान्यत्वार्थमिह पाठ इत्येके, श्राथयते // '86 पृथण प्रक्षेपणे ' / पर्थयात / अयं पर्थण् इत्येके, पार्थण इत्यन्ये; तन्मते पर्थयति, पार्थयति // '87 प्रथण प्रख्याने' / प्रक्षेपणे इत्येके / प्राथयति / डे " स्मृदृत्वर०." 4 / 1 / 65 इति सन्वद्भावापवादे पूर्वस्याऽत्वे अपप्रथत् // अथ दान्ताः पञ्च // ___88 छदण संवरणे' / छादयति / ऊर्जने तु घटादित्वाद् ह्रस्वे छदयति / णौ " दान्तशान्त०" 4474 इति ते वा निपातनात् छन्नः, छादितः / णके उच्छादकः / “कर्मजा तृचा च" 311383 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः; राजोच्छादकः / विपि " छदेरिस्०" 4 / 2 / 23 इति इस्वे तनुच्छत् / करणाधारे * पुनाम्नि" 5 / 3 / 130 इति घे "एकोपसर्गस्य." 4 / 2 / 34 इति इस्वे छदः, प्रच्छदः, उरश्छदः / उणादौ “त्रट " ( उ० 446) इति त्रुटि छत्त्रम् / “हुयामा०" ( उ० 451) इति त्रे हुस्वाभावे छात्त्रः / " मन्" ( उ० 911 ) इति मनि छद्म / " रुच्यर्चि० " ( उ० 989) इति इसि छदिः / अदन्तोऽप्ययमित्येके छदयति / छदण अपवारणे [9 / 398 ], "युजादेः०" 3 / 4 / 18 इति वा णिचि छादयति, छदति / रूपान्यत्वार्थ चेह पाठः, छादयते; अत्राऽऽत्मनेपदं सिद्धम् // . '89 चुदण संचोदने' / संचोदनं नोदनम् / चोदयति / “य एच्चा०" 5 / 1 / 28 इति ये चोद्यम् / “णिवेत्ति०" इत्यने चोदना / भिदायडि निपातनात् चूडा //