________________ 82 ] धातुपारायणे चुरादय: (9) ग्रहणाद् एषु " घटादेः०" 4 / 2 / 24 इति इस्वो नास्ति, णिचोऽनित्यत्वादभावपक्षे तु णिगि ह्रस्वे श्रणयति / श्रण दाने [ 111042 ], श्रणति // '77 पूणण संघाते' / पूणयति // अथ तान्ताः षट् // 78 चितुण स्मृत्याम् ' / उदित्वान्ने चिन्तयति / " णिवेत्ति० " 5 / 3 / 111 इत्यनापवादे " भीषिभूषि०" 5 / 3 / 109 इत्यङि चिन्ता / भीष्यादिभ्योऽनापवादेप्रत्ययेऽपि गेहूंकि भीषादीनां सिद्धौ अविधानं णेलुकोऽनित्यत्वज्ञापनार्थम् , तेन णे गभावे " संयोगात० " 2 / 1 / 52 इति इयि चिन्तिया / तथा न यमेन न जातवेदसा, न कुबेरेण न वज्रपाणिना / 'मधवो युधि 'सुप्रकम्पया, श्वसनेनैव वसुन्धरापते // अत्र सुप्रपूर्वात् कम्पः खलि गेलुंगभावे गुणेऽयादेशे च सुप्रकम्पया इति सिद्धम् / ज्ञापकेन च क्वचिदेव णिलुगभावो ज्ञाप्यते / आमादिषु तु सर्वत्राऽव्यभिचारी अयादेश इत्यामन्तेति वचनम् // '79 पुस्त 80 बुस्तण आदरानादरयोः' / पुस्तयति / अलि पुस्तं लेप्यकर्म / णके पुस्तकम् / अयं वन्दने इति चन्द्रः // '80 बुस्तण' / बुस्तयति / उणादौ " स्वरेभ्य०" (30 606) इति इ., बुस्तिः शुष्कुली // 81 मुस्तण संघाते' / मुस्तयति / अचि मुस्ता / / '82 कृतण संशब्दने' / संशब्दनं ख्याति: / " कृतः कीर्तिः " 4 / 4 / 122 कीर्तयति / डे " ऋद]वर्णस्य " 4 / 2 / 37 इति कीादेशाऽपवाद ऋतो वा ऋति अचीकृतत् , अचीकीर्तत् / " सातिहेति०" 5 / 3 / 94 इति निपातनादनाऽपवादे क्तो कीर्तिः / उणादौ " स्वरेभ्य०” (उ० 606 ) इति इः, कीर्तिः / / 1. माधवो इति रा० प्रतौ / 2. सुप्रकम्ययाः इति हेमहंसगणिकृते न्यायार्थमञ्जूषायाः न्यासे (पृ. 185 ) // 3. अनेन सूत्रेण तु 'स्वरान्तेभ्यः धातुभ्यः इ. प्रत्ययो भवति'। कीर्तिशब्दस्तु . "किलिपिलि." (उ०६०८) इत्यनेन साधितः / /