________________ 314 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 66 "66 मडण् भूषायाम् ' / उदित्वाने मण्डयति / “भूषाक्रोधार्थ० " 5 / 2 / 42 इत्यने मण्डनशीलो मण्डनः / " युवर्ण०" 5 / 3 / 28 इत्यलि मण्डः / "णिवेत्ति" 53 / 111 इत्यने मण्डना / मडु भूषायाम् [1 / 231 ], मण्डति / मडुङ् वेष्टने [11692 ], मण्डते // __67 भडण कल्याणे' / उदित्त्वान्ने भण्डयति / “णिवेत्ति०" 5 / 3 / 111 इत्यने भण्डना / दान्तोऽयमित्यन्ये, भन्दयति / उणादौ णिचोऽनित्यत्वाद् भन्देन लुक् च वा (द्र० उ० 391) इति रकि भद्रं भन्दं च कल्याणम् / भडुङ् परिभाषणे [ 11693 ], भण्डते, भण्डः। 68 पिडुण संघाते' / उदित्वान्न पिण्डयति / पिडुङ संघाते [11684 ], पिण्डते, पिण्डः, पिण्डी / पडुण अयमित्येके, पण्डयति / पडुङ् गतौ [ 11682 ], पण्डते, पण्डितः, पण्डः, पण्डा // '69 ईडण् स्तुतौ' / ईडयति / ईडिक् स्तुतौ [ 2 / 56 ], ईट्टे // .. '70 चडणू कोपे' / उदित्वान्ने चण्डयति / अचि चण्डः / “न वा शोणादेः" 2 / 4 / 31 इति वा ड्याम् चण्डी, चण्डा / चडुङ् कोपे [ 1 / 697 ], चण्डते, चण्डालः // '71 जुड 72 चूर्ण 73 वर्णण प्रेरणे' / प्रेरणं दलनम् / जोडयति, लत्वे जोलयति / क्ते जोडितम् // अथ णान्ताः षट् // '72 [ चूर्णण ] ' / चूर्णयति / अचि चूर्णः। उणादौ " स्वरेभ्य० " ( उ० 606) इति इ., चूर्णिः / / '73 [वर्णण ]' / वर्णयति / " णिवेत्ति० " 5 / 3 / 111 इत्यने संवर्णना // '74 चूण 75 तूणण संकोचने' / चूणयति / “युवर्ण०" 5 / 3 / 28 इत्यलि चूणः / तूणयति / “युवर्ण०" 5 / 328 इत्यलि तूणः / उणादौ " जम्बीराभीर० " ( उ० 422) इति ईरे तूणीरः // '76 श्रणण दाने' / श्राणयति / “णिवेत्ति" 5 / 3 / 111 इत्यने विश्राणना / क्लीबेऽनटि विश्राणनम् / “भीषिभूषि० " 5 / 3 / 109 इत्यत्र- बहुवचनादनापवादे अङि श्राणा यवागूः / “यमोऽपरिवेषणे०" 4 / 2 / 29 इत्यत्र णिचो