________________ 65 ] धातुपारायणे चुरादयः (9) [ 313 अथ डान्ताः सप्तदश // '55 लडण उपसेवायाम् ' / लाडयति / डस्य लत्वे उपलालयति / लड विलासे [ 11254 ], लडति / जिह्वोन्मन्थने घटादित्वाद् णिगि हुस्वे लडयति // .. '56 स्फुडण् परिहासे' / उदित्वान्ने स्फुण्डयति / णके स्फुण्डिका // '57 ओलड्डुण उत्क्षेपे' / उदिवान्ने ओलण्डयति / " सेटक्तयोः" 4 / 3 / 84 इति णे कि ओलण्डित:, ओलण्डितवान् / ओदिदयमित्यन्ये; तन्मते लण्डयति / णिजिटोरनित्यत्वात् “सूयत्यादि०॥ 4 / 2 / 70 इति क्तयोस्तस्य नत्वे लण्डणः, लण्डुणवान् / ओदित्करणबलात् णिज्व्यवायेऽपि नत्वमित्यन्ये लण्डिनः, लण्डिनवान् / 'लदुण् अपि इति चान्द्राः; अवलन्दयति उष्ट्रम् // '58 पीडण गहने' / गहनं बाधा / पीडयति / डे " भ्राजभास." 4 / 2 / 36 इति वा हस्वे अपीपिडत् , अपिपीडत् / " भीषिभूषि०" 5 / 3 / 109 इत्यत्र बहुवचनादङि पीडा / अवगाहने इत्यन्ये / तिलपीलकः // '59 तडण आघाते' / ताडयति / उणादौ णिचोऽनित्यत्वादभावे "शलिबलि०" (उ० 34 ) इति आके तडाकं सरः / तिन्तिडीक इति तु "सृणीका." ( उ० 50) इति ईके निपातनात् तिमः / “तडेरागः" ( उ० 97 ) तडागं सरः / " हसृरुहि०" ( उ० 887) इति इति तडित् / “कमिवमि०" ( उ० 618 ) इति णिदिः, ताडिः // '60 खड 61 खड्डुण् भेदे ' / खाडयति // 61 खडुण्' / उदित्त्वान्ने खण्डयति // '62 कडुण् खण्डने च' / चकाराद् भेदे / उदित्वान्ने कण्डयति / खुडुण, खण्डने इत्येके, खुण्डयति, खुण्डितः // '63 कुडुण् रक्षणे' / उदित्वान्ने कुण्डयति / कुडुङ् दाहे [1 / 690], कुण्डते // 64 गुडुण वेष्टने च' / चकाराद् रक्षणे / उदित्वान्ने गुण्डयति // '65 चुडण् छेदने ' / उदिचान्ने चुण्डयति // 1. तुलना:-चान्द्रा लदिमप्याहुः, (क्षी. त. पृ. 280) //