________________ 13 ] धातुपारायणे चुरादयः (9) [ 309 अथ ऋदन्तौ // '2 पृण पूरणे' / स्वार्थे णिचि पारयति / क्ये पार्यते / " धातोरनेकस्वराद्" 3446 इति आमि पारयांचकार / " साहिसाति०" 51159 इति शे पारयः / ऋदन्तोऽयमित्येके / पंक पालन पूरणयोः [ 2176 ] पिपर्ति / पृङ्त् व्यायामे [5 / 151 ], व्याप्रियते // '3 घृण स्रवणे' / धारयति, घारयामास / धुं सेचने [ 1120 ], घरति घृतम् / घृ मृ आवरणे इति पूर्वे पेठुः // . अथ कान्ता अष्टौ // '4 श्वल्क 5 वल्कण भाषणे' / श्वल्कयति, श्वल्कयांचकार // '5 वल्कण' / वल्कयति, वल्कयांचकार / अलि वल्कः त्वरुत्वक् / वल्कलम् इति तु वले कलकि // '6 नक 7 धक्कण् नाशने' / नक्कयति, धक्कयति // 8 चक्क 9 चुक्कण व्यथने ' / चक्कयति / उणादौ " मुरल०" (उ० 474) इति निपातनादले चक्कलम् , चक्कलकम् // ' 9 चुकण्' / चुक्कयति / अचि अलि वा चुकः / चिक इति कौशिकः / चिक्कसम् चिकणम् // 10 टकुण बन्धने' / उदित्वान्ने टयति, अलि विटङ्कः / "पुनाम्नि" 5 / 3 / 130 इति घे टङ्गः दृषद्दारणः, अनटि टङ्कनम् / " णिवेत्ति०" 5 / 3 / 111 इति अने टङ्कना // 11 अर्कण स्तवने' / अर्कयति / अचि अलि वा अर्कः // __ अथ चान्तौ // -- 12 पिच्चण कुट्टने ' / पिच्चयति / पिचुः इति तु " परिच्चातः " (उ० 735) इति पचे: औ रूपम् // .. '13 पचुण विस्तारे' / उदिचान्ने प्रपञ्चयति, अलि प्रपश्चः / पचुङ् व्यक्तीकरणे [ 11657 ] पश्चते / " नाम्नि पुंसि च" 5 / 3 / 121 इति णके पश्चिका / अचि गौरादित्वाद् ङ्याम् विपश्ची / घनि न्यङ्कवादित्वात् कत्वे पङ्कः / /