________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० 14 अथ छान्तः // 14 म्लेछण म्लेच्छने' / म्लेच्छनम् अव्यक्ता वाक् / म्लेच्छयति / म्लेच्छ अव्यक्तायां वाचि [1 / 119], म्लेच्छति // अथ जान्ता एकादश // '15 ऊर्जण् बलप्राणनयोः' / प्राणनं जीवनम् / ऊर्जयति / “दिद्युद्" . 5 / 2 / 83 इति क्विपि ऊर्छ / “रात्सः" 2 / 1 / 90 इति नियमादत्र संयोगान्तलुक् नास्ति / ऊर्ग अस्यास्ति इति " ऊर्जा विन्वलावश्चान्तः " 7 / 2 / 51 ऊर्जस्वी, ऊर्जस्वलः / मिदाद्यङि ऊर्जा / क्ते ऊर्जितम् // '16 तुजु 17 पिजुण हिंसाबलदाननिकेतनेषु' / निकेतनं गृहम् / उदित्वाने तुञ्जयति, पिअयति / उणादौ "ऋच्छिचटि०" ( उ० 397) इति अरे पिञ्जरः / “पिचिमनि०" ( उ० 488 ) इति ऊले पिजूलः हस्तिबन्धनपाशः / लुजुमप्येके पेठुः, लुञ्जयति / लोक-तति दण्डकेऽनयोः पुनः पाठः अर्थभेदार्थः आत्मनेपदार्थः सकर्मकार्थश्च, तुञ्जयते, पिञ्जयते / तुजु बलने च [ 11162 ], तुओत, पिजुकि संपर्चने [2152 ], पिङ्क्ते / / '18 क्षजुण कृच्छजीवने' / उदिवान्ने क्षमयति / क्षजुङ् गतिदानयोः [ 111001 ] क्षक्षते / घटादित्वाद् जिणम्परे णौ वा दीर्घ अक्षाञ्जि, अक्षञ्जि // * 19 पूजण पूजायाम् ' / पूजयति / " य एच्चा०" 5 / 1 / 28 इति ये पूज्यम् / णके पूजकः / याजकादित्वात् “कर्मजा तृचा च" 3183 इति प्रतिषिद्धोऽपि षष्ठीसमासः, गुरूणां पूजकः गुरुपूजकः / “ज्ञानेच्छा!" 5 / 2 / 92 इति सति ते "क्तयोरसदा०" 2 / 2 / 91 इत्यत्र सदर्थस्य वर्जनात् प्रतिषेधाभावे "कर्तरि" 2 / 286 इति षष्ठयां राज्ञां पूजितः / “ज्ञानेच्छा 0" 31186 इति प्रतिषेधाचात्र न षष्ठीसमास: / " भीषीभूषि०" 5 / 3 / 109 इति अङि पूजा // ___ '20 गज 21 मार्जण शब्दे ' / गाजयति, मार्जयति / मर्चमर्जावपि एके पठन्ति मर्चयति, मर्जयति, मर्जिता // ' 22 तिजण निशाने ' / तेजयति / तेजयामास / “णिवेत्ति०" 5 / 3 / 111 इति अने तेजना / तिजि क्षमानिशानयोः [ 11667 ], "गुप्तिजो० " 34 / 5 1. 'घस्वान्त इति मु०॥