________________ अथ चुरादयः (9) // अथ णितश्चुगदयो वर्णक्रमेण प्रस्तूयन्ते, तत्राऽऽदौ '1 चुरण स्तेये ' / णित्वं चुरादित्वज्ञापनार्थम् / स्वार्थिकत्वेनान्तरङ्गत्वाद् विशेषविधानाच्च कादिकारकापेक्षत्वेन बहिरङ्गेभ्यः सामान्य विहितेभ्यश्च तिवादिभ्यः प्रागेव “चुरादिभ्यो० " 3 / 4 / 17 इति स्वार्थे णिचि, णिजन्तस्यापि क्रियार्थत्वाद्धातुत्वे "शेषात् " 33100 इति परस्मैपदे चोरयति / णिचो गित्वाभावात् फलवकर्तर्यात्मनेपदं नास्ति / चन्द्रस्तु णिच्यपि उभयपदित्वमाम्नासीत् णिज्विकल्प च / “धातोरनेकस्वगद्" 3 / 4 / 46 इति परोक्षाया आमि चोरयांचकार / "णिश्रि० " 3 / 4 / 58 इति डे अचूचुरत् / चोरयन्तं प्रायुक्त इति णिजन्तात् "प्रयोक्तव्यापारे० " 3 / 4 / 20 इति णिगि " णेरनिटि " 4 / 3 / 83 इति णिचो लुक्यपि णिजात्याश्रयणात् समानलोपित्वाभावात् " उपान्त्यस्या० " 4 / 2 / 35 इति हूस्वे " लघोर्दी?०" 4 / 1 / 64 इति पूर्वस्य दीर्घ च अचूचुरत् / कर्मकर्तरि " एकधातौ०" 3 / 4 / 86 इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु " भूषार्थ" 3 / 4 / 93 इति जिक्ययोरभावे अचूचुरत गौः स्वयमेव, चोरयते गौः स्वयमेव / जिच एव प्रतिषेधाञ्चिटि चोरिष्यते गौः स्वयमेव / चोरयिता / " सेटक्तयोः" 4384 इति णेलुकि चोरितः, चोरितवान् / अचि चोरः / गौरादित्वाद् ङ्याम् चोरी / प्रज्ञायणि चौरः / “णिवेत्ति०" 5 / 3 / 111 इति अने चोरणा / णिचोऽनित्यत्वादभावे भिदादिनिपातनादङि चुरा / छत्रादित्वादजि चुराशील: चौरः, "अणये." 2 / 4 / 20 इति ल्याम् चौरी / “युवर्ण०" 5 / 3 / 28 इत्यलि चोरः / ' इह पचुण-चितुणप्रभृतीनां सनकारनिर्देशमकृत्वा उदित्करणं चुरादिणिचोऽनित्यत्वज्ञापकं, न च * चिन्त्यते' इत्यादौ नलोपाभावार्थम् ; ततो णिज्लुकः स्थानित्वेन उपान्त्यत्वाभावान्नलुकोऽप्रसङ्गात् , तेन चोरति, चिन्तति इत्यादि सिद्धम् / इदं च ज्ञापकं, 'घुषेरविशब्दे" 4 / 4 / 68 इति विशब्दनप्रतिषेधः, अयं हि विशब्दने घुषेरिट्प्रतिषेधाभावार्थः, स च णिचोऽनित्यत्वेऽनेकस्वरत्वादेव सिद्धः / तेन ' महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः' [पाताल.. महाभाष्य, 7 / 2 / 23 ] इत्यपि सिद्धम् //