________________ 60 ] धातुपारायणे क्रयादयः (8) [ 307 4 / 4 / 35 इति इटो वा दीर्धे वरिता, वरीता। " इट् सिजाशिषा:०" 4 / 4 / 36 इति वेटि अवरिष्ट, अवरीष्ट, पक्षे "ऋवर्णात् " 4336 इति सिचः कित्त्वे अवृत / वरिषीष्ट, पक्षे वृषीष्ट / " इवृध० " 4 / 4 / 47 इति सनि वेट् , विवरिषते, विवरीषते; पक्षे " नामिनोऽनिट " 4 / 3 / 33 इति सनः किन्वे वुवूर्षते / किति "ऋवर्णश्रि०" 4 / 4 / 57 इति नेट् , वृतः, वृतवान् , वृत्वा / “वर्योपसर्या०" 5 / 1 / 32 इति ये निपातनाद् वर्यम् उपेयम् , वार्यम् अन्यत् / “भृवृजि० " 5 / 1 / 112 इति खे पतिपरा कन्या / " वृदिक्षि०" 5 / 270 इति टाके वराकः, वराकी / " युवर्ण०" 5 / 3 / 28 इत्यलि वरः / उणादौ " जपढ०" ( उ० 47) इति ईके द्वित्वे आदौ च रे वर्वरीका सरस्वती / " वृङ एण्यः" ( उ० 382 ) वरेण्यः / घृगट वरणे [ 4 / 9 ], वृणुते, वृणोति / वृगण आवरणे [ 9 / 380 ], " युजादेः०" 3 / 4 / 18 इति वा णिचि वारयति; पक्षे वरते, वरति // इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे नाविकरणः शित् क्रयादिगणः सम्पूर्णः // वाति // 1. उणादिविवरणे तु 'ग्ट् वरणे' इत्यस्माद् धातोः 'वर्वरीका' शब्दः साधितः॥