________________ 306 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 55'55 प्लुषश्' / प्लुष्णाति / हौ प्लुषाण / प्लोषिता / प्लुषितः / पुषू, प्लुध दाहे [ 11532, 533 ], प्रोपति, प्लोषति / प्लुषच दाहे [ 368 ], प्लुष्यति // ___ 56 मुष स्तेये' / मुष्णाति. हौ मुषाण / मुमोष, मोषिता, मुषितः / "रुदविद०" 4 / 3 / 32 इति क्त्वासनोः किल्वे मुषित्वा, मुमुषिषति / उणादौ " विचिपुषि० " ( उ० 22) इति किति के मुकः पेलम् / " मुर्दीर्घश्च" (उ० 43) इति इके मूषिकः, अजादित्वादापि मूषिका // '57 पुषश् पुष्टौ' / पुष्णाति, हौ पुषाण / पुपोष, पोषिता / पुष पुष्टौ [ 11536 ], पोषति / पुषच पुष्टौ [ 3 / 32 ], पुष्यति, पोष्टा // '58 कुषश् निष्कर्षे' / निष्कर्षः बहिष्कर्षणम् / कुष्णाति / कर्मकर्तरि " कुपिरजेः०" 3 / 4 / 74 इति वा परस्मैपदे श्ये च कुष्यति पादः स्वयमेव, पक्षे " एकधातौ०" 3 / 4 / 86 इति क्याऽऽत्मनेपदयोः कुष्यते पादः स्वयमेव / हौ कुषाण / चुकोष, कोषिता / "वो व्यञ्जनादेः०" 4 / 3 / 25 इति सनो वा कित्त्वे चुकुषिषति, चुकोषिषति / "क्षुधक्लिश०" 4 / 3 / 31 इति क्त्वः कित्त्वे कुषित्वा / निरः परात् “निष्कुषः " 4 / 4 / 39 इति वेट , " हशिटो. " 3455 इति सकि निरकुक्षत् , पक्षे सिचि निरकोषीत् / सनि निश्चुकुक्षति / "उपान्त्ये" 4 4 / 44 इत्यत्र किचम् निश्चुकुषिषति / निश्चुकोषिषति, निष्कोष्टा, निष्कोषिता / “क्तयोः" 4 / 4 / 40 इति इटि निष्कुषितः, निष्कुषितवान् / उणादौ " कुषेः कित्" ( उ० 80) इति ईतके कुपीतकः ऋषिः / " कुषेर्वा " ( उ० 164) इति वा किति ठे कोष्ठः, कुष्ठम् / प्रकोष्ठः दोषः / “पिप्लुषि०" ( उ०.७०७) इति सिकि कुक्षिः / "सिविकुटि." (उ० 753) इति कित्याको कुषाकुः अग्निः // अथ सान्तः सेट् च // "59 धसूरू उञ्छे' / ध्रस्नाति / हौ धसान / दध्रास, ध्रसिता, ध्रसितुम् / अदिचात् क्त्वि वेट् , ध्रस्त्वा, ध्रसित्वा / वेट्त्वात् क्तयोर्नेट् , ध्रस्तः, ध्रस्तवान् / ध्रसण उत्क्षेपे [ 9 / 195 ], धासयति // अथाऽऽत्मनेपदी ऋदन्तः सेट् च // '60 वृश संभक्तौ ' / संभक्तिः संसेवा / " इङित:०" 3 / 3 / 2 इति आत्मनेपदे " एषामी०" 4 / 2 / 97 इति ईत्वे वृणीते / वत्रे / " वृतो नवा०"