________________ 54 ] धातुपारायणे क्रयादयः (8) [305 अथ शान्तौ सेटौ च // '50 क्लिशोश् विवाधने' / " तवर्गस्य० // 1 / 3 / 60 इति नो अस्य " न शात् " 113 / 62 इत्यभावे क्लिश्नाति / हो क्लिशान / चिक्लेश / औदिवाद् वेट , क्लेष्टा, क्लेशिता / क्तक्त्वासु " पूक्लिशिभ्यो." 4 / 4 / 45 इति वेटि क्लिष्टः, क्लिशितः, क्लिष्टवान् , क्लिशितवान् , क्लिष्ट्वा / "वौ व्यञ्जनादेः०" 4 / 3 / 25 इति विकल्पापवादे “क्षुधक्लिश० " 4 / 3 / 31 इति किचे क्लिशित्वा / उणादौ " क्लिशः के च" ( उ० 530) इति शे केशः / क्लिशिच उपतापे [3 / 133 ], क्लिश्यते / क्लिश्यति इति तु आत्मनेपदस्याऽनित्यत्वज्ञापनात् // __51 अशश भोजने' / अश्नाति / हो अशान / आश, अशिता. अशितः / "भावे चाशिताद्" 5 / 1 / 130 इति निर्देशात् साप्यादपि कर्तरि क्ते दीपेच आपूर्वादविवक्षितकर्मणो वा क्ते आशितः तृप्तः / " वेयिवद्" 5 / 2 / 3 इति निपातनाद् भूतमात्रे क्वसुः न चेट , नाशीत , अनाश्वान् / " भुजिपति०" 5 / 3 / 128 इति कर्मणि अनटि अशनम् / क्यनि " क्षुत्तट" 4 / 3 / 113 इति निपातनाद् अशनायति बुभुक्षुः / क्षुधोऽन्यत्र अशनीयति दातुम् / उणादौ "इष्यशि०" (उ० 77 ) इति तककि अष्टका पितृदैवत्यं कर्म / अधिः इति तु "तविङ्कि०" (उ० 692 ) इति रौ अश्नोतेः / अशौटि व्याप्ती [ 4 / 29 ], अश्नुते / / अथ षान्ताः सप्त सेटश्च // .. '52 इष आभीक्ष्ण्ये' / आमीक्ष्ण्यं पौनःपुन्यम् / इष्णाति / हो इषाण / इयेष, एपिता, इपितः, इषितवान् / तादौ " सहलुभेच्छ० " 4 / 4 / 46 इति इट् वा अतोऽपीत्येके, एष्टा, एषिता / वेट्त्वात् क्तयोर्नेट् , इष्टः, इष्टवान् / इषच गती [ 3 / 25 ], अन्विष्यति / इषत् इच्छायाम् [ 5 / 105 ], इच्छति, इष्टः // 53 विषश विप्रयोगे' / विष्णाति / हौ विषाण / विवेष, वेषिता / "वौ व्यअनादेः" 4 / 3 / 25 इति क्त्वासनोः वा किल्वे विषित्वा, वेषित्वा, विविषिषति, विवेषिषति / विषितः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के विषम् / विष सेचने [ 11523 ], वेषति / विष्लंकी व्याप्तौ [ 2185 ], वेविष्टे, वेवेष्टि, अविषत् / / 54 पुष 55 प्लुषा स्नेहसेचनपूरणेषु' / पुष्णाति, हौ ग्रुषाण / पुप्रोष, प्रोषिता, पुषितः / "क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि विग्रुट् / उणादौ "निघृषी०" (उ० 511) इति किति वे पुष्वा निवृत्तिः // '38