________________ 304 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 45 हस्तबन्धं बद्धः / उणादौ " दृकुन० " (उ० 27) इत्यके बन्धकः चारकपालः / गौरादित्वाद् ड्याम् बन्धकी पांसुला / “मृमनि०" (उ० 58) इति ऊके बन्धकः / " बन्धेः " ( उ० 157) इति कित्यूटे वधूटी / “दिननग्न " (उ० 268) इति ने निपातनाद् 'बध्नः रविः / " शुषीषि०" ( उ० 416) इति किति इरे बधिरः / “भृमृतृ." ( उ० 716 ) इत्युः, बन्धुः // अथ भान्तास्त्रयः सेटश्च // '46 क्षुभश संचलने' / “क्षुम्नादीनाम्" 2 / 3 / 96 इति णत्वाभावे क्षुम्नाति, क्षुम्नीतः, क्षुम्नन्ति / हौ भुभाण / चुक्षोभ, क्षोभिता, अक्षोभीत् / "क्षुब्धविरिब्ध०" 4 / 4 / 70 इति ते निपातनाद् नेट् , क्षुब्धः मन्थश्चेत् , क्षुभित: अन्यः / क्षुभि सञ्चलने [ 11948 ], क्षोभते / शुभचे सञ्चलने [3 / 56), क्षुभ्यति / पुण्याद्यङि अक्षुमत् // '47 णभ 48 तुभ हिंसायाम् ' / “पाठे०" 2 / 3 / 97 इति णो ने नम्नाति / “अदुरुपसर्गा०" 2 / 3 / 77 इति नो णे प्रणम्नाति / हो नभान / ननाम / “अनादेशादेः०" 4 / 1 / 24 इति अत एत्वे द्वित्वाभावे च नेभतुः, नेभुः / नमिता, नमितः // '48 तुभश' / तुम्नाति, तुतोभ, तुतुभतुः, तुतुभुः, तोभिता, तुभितः / णभि-तुभि हिंसायाम् [ 11949, 950 ], नभते, तोभते / णभ-तुभच हिंसायाम् [ 3 / 57, 58 ], नभ्यति, तुभ्यति // अथ वान्तः सेट् च // '49 खवर हेठश्वत् ' / यथा हेठा भूतप्रादुर्भावे तथाऽयमपि, वर्णक्रमानुरोधेन तु तत्रैव न पठितः / " अनुनासिके च०" 4 / 1 / 108 इति व ऊटि "ऊटा" 1 / 2 / 13 इत्यतः औत्वे खौनाति / ऊटं, " वोः०" 4 / 4 / 121 इति वलुकं च नेच्छन्त्येके, तन्मते खन्नाति / हौ खवान / चखाव, खविता खवितुम् , खवित्वा, खवितः / विपि खौः / चान्तोऽयमित्येके, चान्तं धात्वन्तरमित्यन्ये, तन्मते " तवर्गस्य० " 1 / 360 इति नो अत्वे खाति / हो खचान / खचितः खचितवान् , खचितुम् / / 1. व्रध्नो इति मु० //