________________ 45 ] धातुपारायणे क्रयादयः (8) [ 303 जग्रन्थिथ / ग्रन्थिता, ग्रन्थितुम् , ग्रथितः, प्रथितवान् / " ऋत्तृष० " 4 / 3 / 24 इति क्त्वो वा किल्वे प्रथित्वा, ग्रन्थित्वा / घत्रि ग्रन्थः / उणादौ " पदिपठि०" (उ० 607) इति इः, ग्रन्थिः पर्व / ग्रथुङ कौटिल्ये [ 1718 ], ग्रन्थते / ग्रन्थण सन्दर्भ [ 9 / 393 ], " युजादेः० " 3 / 4 / 18 इति वा णिचि ग्रन्थयति, ग्रन्थति / / '42 कुन्थश सङ्क्लेशे'। श्लेषणे इत्यन्ये / कुथ्नाति / हौ कुथान / चुकुन्थ, कुन्थिता, कुन्थितुम् , कुथितः, कुथितवान् / "ऋत्तप० " 4 / 3 / 24 इति क्त्वो वा किल्वे कुथित्वा, कुन्थित्वा / घनि कुन्थः / स्थादित्वात् के कुथ्यते इति कुथः, कुथा, कुथं वा वर्णकम्बलः / "क्तेटो०" 5 / 3 / 106 इत्यः, कुन्था / उणादौ "भृमृत० " ( उ० 716) इत्युः, कुन्थुः सूक्ष्मजन्तुः / “ते लुग्वा" 3 / 2 / 108 इत्युत्तरपदलुकि कुन्थुदयापरः 'कुन्थुभंगास्तीर्थकरः'। कुथु हिंसासंक्लेशयोः [ 1 / 288 ], उदिच्चान्ने कुन्थति, कुन्थ्यते // अथ दान्तः सेट् च // '43 मृदश् क्षोदे' / मृगाति / हौ मृदान / ममर्द, मर्दिता, मृदितः / "अजातेः शीले " 5 / 1 / 154 इति णिनि नगरमी, प्राकारमर्दी / "क्षुधक्लिश०" 4 / 3 / 31 इति क्त्वः किल्वे मृदित्वा / " क्रुत्संपदा०" 5 / 3 / 114 इति कर्मणि क्विपि मृद् / उणादौ "मृदेवोऽन्तश्च वा" ( उ० 49) इति ईके मृद्वीका, मृदीका च द्राक्षा / " मृदुन्दि०" ( उ० 399) इति कित्यरे मृदरो व्याधिः / * "मृदिकन्दि० " ( उ० 465 ) इत्यले मर्दलो मुरजः // अथ धान्तौ // '44 गुधर रोषे' / गुध्नाति / हौ गुधान / जुगोध, गोधिता, गोधितुम् , गुधितः / "क्षुधक्लिश" 43 / 31 इति क्त्वः कित्त्वे गुधित्वा / "वो व्यानादे:." 4 / 3 / 25 इति सनो वा कित्त्वे जुगुधिषति, जुगोधिषति / भिदाद्यङि गोधा / उणादौ "कुथिगुधेरूमः" (उ० 353) गोधूमः / गुधच् परिवेष्टने [ 3 / 12 ], गुध्यति / '45 बन्धंश बन्धने' / बध्नाति, हो बधान / बबन्ध / संयोगान्तत्वाद् ." इन्ध्यसंयोगा०" 4 / 3 / 21 इति किवाभावे बबन्धतुः, बबन्धुः। अनुस्वारेवान्नेट , "गडदबादे:०" 211177 इति बस्य मे संभन्स्यति / संबद्धा, बद्धः / " बन्धेर्नाम्नि" 5 / 4 / 67 इति णमि कुकुटीवन्धं बद्धः / “आधारात्" 5 / 4 / 68