________________ 302] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 38 अथ डान्तः सेट् च // '38 मृडश सुखने' / “तवर्गस्य०" 113 / 60 इति नो णे मृणाति / "व्यञ्जनात्" 3480 इति श्नाहेः आने मृडानः / ममर्ड, मर्डिता, मृडितः / "क्षुधक्लिश" 4 / 3 / 31 इति क्त्वः कित्वे मृडित्वा / " नाम्युपान्त्य०" 5 / 1 / 54 इति के मृडः / उणादौ " ऋच्यजि०" ( उ० 48) इति किति ईके 'मृडीकः सुखकृत् / मृडत् सुखने [5 / 44 ], मृडति // अथ थान्ताश्चत्वारः सेटश्च // 39 श्रन्थश् मोचनप्रतिहर्षयोः' / “नो व्यअनस्या०" 4 / 2 / 45 इति नलुकि श्रथ्नाति, श्रथान / कर्मकर्तरि “एकधातौ०" 3 / 486 इति जिक्यात्मनेपदेषु प्राप्तेषु किरादित्वात् “भूषार्थ० " 3 / 4 / 93 इति क्यञ्योरभावे अथ्नीते माला स्वयमेव / अश्रन्थिष्ट माला स्वयमेव / शश्रन्थ / " वा श्रन्थ०" 4 / 1 / 27 इति अत ऐत्वे, द्वित्वाभावे नो लुकि च श्रेथतुः, श्रेयुः, श्रेथिथ; पक्षे शश्रन्थतुः, शश्रन्थुः / " स्क्रसृवृ०" 4 / 4 / 81 इति इटि शश्रन्थिय / श्रन्थिता, श्रन्थितुम् , श्रथितः, श्रथितवान् / " दशनावोद० " 4 / 2 / 54 इति निपातनाद् नलुकि घनि प्रश्रयः, हिमश्रथः / " णिवेत्ति०" 5 / 3 / 111 इत्यने श्रन्थना / “ऋत्तष० " 4 / 3 / 24 इति क्त्वो वा कित्त्वे, अथित्वा, श्रन्थित्वा / श्रथुङ् शैथिल्ये [11717], श्रन्थते / श्रन्थण सन्दर्भ [9 / 392 ], " युजादेः " 3 / 4 / 18 इति वा णिवि श्रन्थयति, श्रन्थति // 40 मन्था विलोडने' / मध्नाति / हो मथान / ममन्थ, मन्थिता, मन्धितुम् , मथितः, मथितवान् / “ऋतृष०" 4 / 3 / 24 इति क्त्वो वा किन्वे मथित्वा, मन्थित्वा / घञि मन्थः / उणादौ " संस्तुस्पृशिमन्थेरानः " (उ० 276) मन्थानः खजकः / मन्थ हिंसासंक्लेशयोः [ 11292 ], मन्थति // '41 ग्रन्थय सन्दर्भ' / सन्दर्भो बन्धनम् / अध्नाति / हो अथान / कर्मकर्तरि " एकघातौ०" 3 / 486 इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु "भूषार्थ." 3 / 4 / 93 इति क्यञ्योरभावे ग्रनीते माला स्वयमेव, अग्रन्थिष्ट माला स्वयमेव / जग्रन्थ / " वा अन्थ० " 4 / 1 / 27 इति अत एत्वे द्वित्वाभावे नो लुकि च ग्रेथतुः, ग्रेथुः / " स्क्रसृवृ०" 4 / 4 / 81 इति इटि ग्रेथिथ; पक्षे जग्रन्थतुः, जग्रन्थुः, 1. मृडोकम् इति उणादि विवरणे //