________________ 37 ] धातुपारायणे क्रयादयः (8) [ 301 " ज्ञप्यापो०" 4 / 1 / 16 इति ज्ञीप न च द्विः ज्ञीप्सति / " नाम्युपान्त्य० " 5 / 154 इति के ज्ञः। " उपसर्गादातो० " 5 / 1156 इति डे प्रज्ञः / प्रज्ञाद्यणि प्राज्ञः / "प्राज्ज्ञश्च" 5 / 179 इति डे पथिप्रज्ञः / “णौ दान्त" 4 / 4 / 74 इति ते वा निपातनात् संज्ञप्तः पशुः; पक्षे " सेटुक्तयोः" 4 / 3 / 84 इति णेलुकि संज्ञपितः / " उपसर्गाद्" 5 / 3 / 110 इत्यङि प्रज्ञा, उपज्ञा / उणादौ " प्लुज्ञायजि०" ( उ० 646) इति तो ज्ञातिः बन्धुः; ज्ञायते इति वा स्त्रियां तो ज्ञातिः / ज्ञानं ज्ञातिरिति तु नास्ति, प्रसिद्धेनापहृतत्वात् // अथेदन्तोऽनिट् च // '34 क्षिा हिंसायाम् ' / क्षिणाति, चिक्षाय / " संयोगात्" 221152 इति याऽपवादे इयि चिक्षियतुः, चिक्षियुः / अनुस्वारेचान्नेट , क्षेता, क्षेतुम् / सानुबन्धत्वात् " क्षेः क्षी चा०" 4 / 2 / 74 इति क्तयोस्तस्य नत्वाऽभावे क्ष्यादेशाभावे च क्षितः, क्षितवान् / पिचादङि क्षिया / " श्वादिभ्यः " 5 / 3.92 इति तो क्षितिः / दीर्घान्तोऽयमित्येके, क्षीणाति, क्षीतः, क्षीतवान् / झिं क्षये [1110], क्षयति / क्षित् निवासगत्योः [5 / 17], क्षियति // अथेदन्तावनिटौ च // / '35 वीं वरणे' / वीणाति / पादिरयमित्येके; तन्मते " प्वादेः०" 4 / 2 / 105 इति इस्वे विणाति / विवाय / यापवादे " संयोगात्" 2 / 152 इति इयि विवियतुः वित्रियुः / अनुस्वारेत्वान्नेट , बेता, बेतुम् , बीतः, बीतवान् , प्रीतिः / उणादौ " त्रियो हिक् " ( उ० 710 ) व्रीहिः // '36 भ्रींश भरणे' / भये इत्यन्ये / भ्रीणाति / प्वादिरयमित्येके, तन्मते " प्वादेः" 4 / 2 / 105 इति हुस्वे भ्रिणाति / विभ्राय / याऽपवादे "संयोगात् " 2 / 1 / 52 इति इयि विभ्रियतुः, विभ्रियुः। अनुस्वारेच्चान्नेट , भ्रता, भ्रतुम् , भ्रीतः, श्रीतवान् , भ्रीतिः / “युवर्ण" 5 / 3 / 28 इन्यलि भ्रयः // अथ ठान्तः सेट् च // ___37 हेठा भूतप्रादुर्भावे' / भूतप्रादुर्भावः अतिक्रान्तोत्पत्तिः / “तवर्गस्य." 11360 इति नस्य णत्वे हेठणाति / "व्यञ्जनाच्छनाहेरानः" 3480 हेठानः / * जिहेठ, हेठिता, हेठितुम् , हेठितः / हेठि विवाधायाम् [ 11676 ], हेठते //