________________ 300 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३०अचि नरः / स्त्रियां " नारी-सखी०" 2 / 4 / 76 इति निपातनाद् याम् नारी / गौ घटादित्वाद् ह्रस्वे नरयति // 31 गृश शब्दे' / " वादेः” 4 / 2 / 105 इति हूस्वे गृणाति / जगार / “स्कृच्छतो०" 4 / 3 / 8 इति गुणे जजन्तुः, जजरुः / " वृतो नवा." 4 / 4 / 35 इति इटो वा दी गरिता, गरीता। किति " ऋवर्णश्रि० " 4457 इति नेट , " ऋल्यादेः०॥ 4 / 2 / 68 इति तो ने गीर्णः, गीर्णवान् , गीणिः / “युवर्ण०" 5 / 3 / 28 इत्यलि गरः / उणादौ " कुन ऋत उर च" ( उ० 734) इति उः, गुरुः / गृत् निगरणे [ 5 / 21 ], गिरति / / 32 ऋश गतौ' / " प्वादे:०" 4 / 2 / 105 इति इस्वे ऋणाति / क्ये ईर्यते / आर, आरतुः / " वृतो नवा०" 4 / 4 / 35 इति इटो वा दी अरिता, अरीता / किति "ऋवर्णश्रि० " 4 / 4 / 57 इति नेट् , " ऋल्यादेः०" 4 / 2 / 68 इति तो ने समीर्णः, समीर्णवान् , समीणि: / " इवृध०" 4447 इति सनि वेट , अरिषिति, अरिरीषति / इडभावपक्षे इरादेशे दीर्घत्वे सनो द्वित्वे, पूर्वस्य इत्वे, द्वयोः षत्वे च ईपिषति // वृत् प्वादिः / ल्वादिः / प्वादिर्खादिश्च वृत् वर्तितः, संपूर्ण इत्यर्थः // अथ परस्मैपदिष्वेवाऽऽदन्तोऽनिट च / '33 ज्ञांश अवबोधने' / " जा ज्ञा०" 4 / 2 / 104 इति जाऽऽदेशे जानाति / फलवकर्तरि “ज्ञोऽनुपसर्गात् " 3 / 3 / 96 इत्यात्मनेपदे धर्म जानीते / “पदान्तरगम्ये वा" 3 / 3 / 99 स्वां गां जानीते, जानाति वा / उपसर्गात्तु " शेषात् " 3 / 3 / 100 इति परस्मैपदे अवजानासि माम् / " निह्नवे ज्ञः" 33 / 68 शतम् अपजानीते / “संप्रतेरस्मृतौ” 3 / 3 / 69 " समो ज्ञो०" 222151 इति व्याप्ये वा तृतीयायां मात्रा संजानीते, मातरं संजानीते, नित्यं शब्दं प्रतिजानीते / "अननोः सनः" 3370 धर्म जिज्ञासते / अनोस्तु, पुत्रम् अनुजिज्ञासति पाठाय / कर्मण्यसति ज्ञः "अज्ञाने" 2 / 80 इति करणे षष्ठयां सर्पिषो जानीते, सर्पिषा करणभूतेन प्रवर्तते इत्यर्थः / जज्ञे. जज्ञौ / " संयोगादेर्वाऽऽशिष्यः" 4395 ज्ञेयात् , ज्ञायात् अक्ङिति तु ज्ञासीष्ट / अनुस्वारेवान्नेट् , ज्ञाता, ज्ञातुम् / " ज्ञानेच्छा०" 5 / 2 / 92 इति सति ते ज्ञात: / णौ " मारणतोषण" 4 / 2 / 30 इति ह्रस्वे संज्ञपयति पशुम् , विज्ञपयति गुरुम् , ज्ञपयति * शस्त्रम् / अन्यत्र ज्ञापयति / " इवृध०" 4 / 4 / 47 इति सनि वेट , जिज्ञपयिषति; पक्षे