________________ [297 25 ] धातुपारायणे क्रयादयः (8) ऊर चान्तस्य" ( उ० 298 ) इति पे शूर्पो धान्यपवनभाण्डम् / “कृशगृ०" (उ० 329 ) इत्यभे शरमः / “अर्तीरि०" ( उ० 338) इति मे शर्म सुखम् / " धाग्राजि० " ( उ० 379) इत्यन्ये शरण्यः त्राता / “कृश 0" ( उ० 418 ) इतीरे शरीरम् / " श्वसुरकुकुन्दुर० " ( उ० 426 ) इत्युरे निपातनात् शर्कुरः तरुणः / “कुशवृभ्यः करः" (उ० 435) शर्करः, शर्करा / "कृगश० " ( उ० 441 ) इति वरटि शर्वरो रुद्रः, शर्वरं तमः, शर्वरी रात्रिः / "श्री नोऽन्तो हस्वश्च" ( उ० 498 ) इति खले शृङ्खला / " लटिखटि० " ( उ० 505 ) इति वे शौं रुद्रः / “शणातेराव: " ( उ० 520) शरावः / "ऋजिश० " ( उ० 554 ) इति कितीषे शिरीषः / " नाम्युपान्त्य०" (उ० 609) इति किदिः, शिरिः हिंस्रः / " कृशकुटि०" ( उ० 619) इति वा णिदिः, शारिः द्यूतोपकरणं-हस्तिपर्याण-शारिका च / शरिः हिंसा / "ऋद्धृमृ०" ( उ० 635) इति किति णौ शीणिः रोगः / “नीसावृ०" (उ० 687) इति मौ शर्मिः मृगः / " कुन्द्रि०" ( उ० 695 ) इति से निपातनात् शरारिः आति: / " जस्तृ०" (उ० 705) इति डिति वो शीविः हिंस्रः / "भृमृतृ० " ( उ० 716) इत्युः, शरुः शरः हिस्रश्च / " उवर्ण०" 7 / 1 / 30 इति ये शरवे हितं शरव्यं वेध्यम् / “किमः श्री णित् " ( उ० 725) इत्युः, किंशारु: धान्यशूकम् / “ऋतशमृभ्रादिभ्यो रो लश्च " ( उ० 727 ) शालुः कषायः। " पराभ्यां शृखनिभ्यां डित् " ( उ० 724 ) परशुः / शिग्रुः इति तु "शिग्रुगेरु०" ( उ० 811) इति से निपातनात् शिनोतेः / कशेरूः इत्यपि “काच्छीडा डेरूः" (उ० 851) इति शेतेः / “शूद. " ( उ० 894 ) इत्यदि शरत् / “मन्" (उ० 911 ) इति मनि शर्म सुखम् / " मिथिरञ्जी." ( उ० 971 ) इति कित्यसि शिरः // '25 पृश् पालनपूरणयोः' / " प्वादेः" 4 / 2 / 105 इति द्वस्वे पृणाति / पपार / " ऋः शृदृप्रः" 4 / 4 / 20 निपप्रतुः, निपाः; पक्षे "स्कृच्छ्तो० " 4 / 3 / 8 इति गुणे निपपरतुः, निपपरुः " वृतो नवा०" 4 / 4 / 35 इति इटो वा दीर्धे परिता, परीता / किति "ऋवर्णश्रि०" 4 / 4 / 57 इति नेट् , " ऋल्वादेः०" 4 / 2 / 68 इत्यत्र प्रो वर्जनात् तो नत्वाभावः पूर्त, पूर्तवान् , पूर्तिः / “णो दान्त· शान्त० " 4 / 4 / 74 इति क्ते वा निपातनमस्याऽपीत्येके, पूर्णः, पारितः / अस्मादेव 1. धान्यशूखम् इति मु० // 30