________________ द 298 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० २५निपातनात् पूरेणी ते पूर्णः, पूरितः / ण्यभावे तु पूर्णः / " युवर्ण० " 5 / 3 / 28 इत्यलि परः / उणादौ " पृपलिभ्यां टिव पिप् च पूर्वस्य" (उ० 11) विपरी वृक्षजातिः / “किच्च" ( उ० 10) इति किद् अ: सरूपद्वित्वं च पुपुरः फेनः / " इणुविशा०" ( उ० 182 ) इति णे पर्णम् / " गप०" ( उ० 188) इति कित्यणे पुरणः समुद्रः / " भापा० " ( उ० 296 ) इति पे पर्पः प्लव: / " सपृप्रथि० " ( उ० 347) इत्यमे परमः / " ऋजिश०" (उ० 554 ) इति कितीषे पुरीषम् / " विदिपृभ्यां० " ( उ० 558 ) इति कित्युषे पुरुषः / " पका०" ( 30 729) इति किदुः, पुरुः महान् राजा च / " स्नामदि०" (उ० 904) इति वनि पर्व ग्रन्थिः / " रुद्यति०" (उ० 997) इत्युसि परुः पर्व / " गुपदुर्वि०" ( उ० 943) इति क्विपि पू: पुरी // '26 वश भरणे' / वरणे इत्यन्ये / ओष्ठयादिः / " प्वादेः०" 4 / 2 / 105 इति हस्वे बृणाति / बबार / “स्कृच्छ्रतो०" 4 / 3 / 8 इति गुणे बबरतुः, बबरुः / वृतो नवा० " 4 / 4 / 35 इति इटो वा दीर्चे बरिता, बरीता / " इवृध०" 4 / 4 / 47 इति सनि वेट् , विवरिपति, विबरीषति / " नामिनोऽनिट " 4 / 3 / 33 इति सन: किन्वे " ओष्ठ्याद्" 4 / 4 / 117 इत्युरि बुबूपति / किति "ऋवर्णश्रि." 4 / 4 / 57 इति नेट , " ऋल्वादेः०" 4 / 2 / 68 इति तो ने चूर्णः, बूर्णवान् , बूर्णिः / उणादौ " ऋतष्टित् " ( उ० 9) इत्यः, सरूपद्वित्वं च बर्बरो म्लेच्छः; बर्बरी कुञ्चितः केशः / " पृ० " ( उ० 709) इति नसौ वर्णसिः भूमिः // 27 मा भर्जने च' / भर्जनं पाशः / चकाराद् भरणे / भर्सने इत्यन्ये / " वादेः०" 4 / 2 / 105 इति ह्रस्वे भृणाति / बभार। " वृतो नवा०" 4 / 4 / 35 इति इटो वा दीर्षे भरिता, भरीता / “इवृध० " 4 / 4 / 47 इति सनि वेट, विभरिपति, विभरीपति, बुभूषति / किति “ऋवणश्रि०" 4 / 4 / 57 इति नेट् , " ऋल्वादेः०" 4 / 2 / 68 इति तो ने भूर्णः, भूर्णवान् , भूर्णिः / उणादौ " ऋतष्टित् " ( उ० 9) इत्यः सरूपद्वित्वं च भर्भरः छद्मवान् / भर्भरी श्रीः / “किच्च" ( उ० 10) भुर्भुरः सञ्चयः / / 28 दृश् विदारणे' / भये इत्यन्ये / " वादे:०" 4 / 2 / 105 इति इस्वे दृणाति / ददार / " ऋः शप्रः" 4 / 4 / 20 दद्रतुः, दद्रुः; पक्षे " स्कच्छतो." 4 / 3 / 8 इति गुणे विददरतुः, विददरुः / णौ डे " स्मृदृत्वर०" 4165 इति पूर्वस्य सन्वद्भावापवादे अत्वे अददरत् / " वृतो नवा०" 4 / 4 / 35 इति इटो वा