________________ 296] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 22" वृतो नवा०" 4 / 4 / 35 इति इटो वा दीर्घे, करिता, करीता / किति "ऋवर्णत्रि०" 4 / 4 / 57 इति नेट् , “ऋल्वादेः०" 4 / 2 / 68 इति तो ने कीर्णः, कीर्णवान् , कीणिः / " इवृध०" 4 / 4 / 47 इति सनि वेट् चिकरिषति, चिकरीषति, चिकीर्षति, उभयपदिष्वधीतोऽप्ययं फलवत्कर्तरि परस्मैपदार्थमिह पठितः / कृत् विक्षेपे [ 5 / 20 ], किरति // . 23 मृ' / " प्वादेः०" 4 / 2 / 105 इति हुस्वे मृणाति / ममार / "स्कृच्छ्रतो०" 4 / 3 / 8 इति गुणे ममरतुः / " वृतो नवा०" 4 / 4 / 35 इति इटो वा दीर्षे मरिता, मरीता / किति " ऋवर्णश्रि०" 4 / 457 इति नेट् , "ऋल्वादेः०" 4 / 2 / 68 इति तो ने पूर्णः, पूर्णवान् , मूर्णिः / उणादौ "म्र उत्" ( उ० 889) 'मरुत् // '24 श्' / " प्वादेः०" 4 / 2 / 105 इति इस्वे शृणाति / क्ये शीर्यते / विशशार / “ऋः शूदृप्रः" 4 / 4 / 20 विशश्रतुः, विशश्रुः; पक्षे "स्कृच्छतो." 4 / 3 / 8 इति गुणे विशशरतुः, विशशरुः / " वृतो." 4 / 4 / 35 इति इटो वा दी विशरिता, विशरीता / किति "ऋवर्णश्रि०" 4 / 4 / 57 इति नेट् , " ऋल्वादेः " 4 / 2 / 68 इति तो ने शीर्णः, शीर्णवान् , शीणिः / अचि शरः / " शृवन्देः० " 5 / 2 / 35 इत्यारी शरणशीलः शरारु: / " शकम०" 5 / 2 / 40 इति उकणि विशारुकः / " पुनाम्नि" 5 / 3 / 130 इति घे शुणन्ति तेन शरः / "श्री वायु०" 5 / 3 / 20 इति घनि शारो वायुः वर्णश्च; नीशारो हिमानिलापहं 'वस्त्रम् / गौरिवाकृतनीशारः, प्रायेण शिशिरे कृशः' // उणादौ " किच्च" (उ० 10) इति किद् अः धातोश्च सरूपद्वित्वम् , शिशिरः / " जपढ० " ( उ० 47 ) इतीके द्वित्वे रे चाऽऽदौ शर्शरीकः क्रिमिः, शर्शरीका माङ्गल्याभरणम् / " शृङ्ग" (उ० 96 ) इति गे निपातनात् शृङ्गं विषाणम् , शाङ्गः पक्षी। " पतितमि० " (उ० 98 ) इत्यङ्गे शरङ्गः। “अनिशृ०" ( उ० 145) इत्याटे शराटः शकुन्तः, शृङ्गाट इति तु " कपाट०" ( उ० 148) इत्याटे निपातनात् श्रयतेः / " मृजश०" ( उ० 167 ) इत्यठे शरठः आयुधम् / " जुकृत०" ( उ०. 173 ) इत्यण्डे शरण्डः / “तृक 0 " ( उ० 187) इत्यणे शरणं गृहम् / “परात् श्री डित् " ( उ० 255 ) इति वधे परश्वधः। " कृशसभ्य 1. उणादि विवरणे तु मृत प्राणत्यागे इत्यस्माद् धातो: 'मरुत् ' शब्दः साधित: //