________________ 14 ] धातुपारायणे क्रयादयः (8) [293 जन्तुः, लोतः वस्तः / " स्वरेभ्य०" (उ० 606) इत्यो लविः दात्रम् / "लूधू०" ( उ० 679) इति किति नौ लूनि: लवन: / " मन्” (उ० 911) इति मनि लोम // ___ 13 धूगा कम्पने ' / वादित्वाद् ह्रस्वे धुनीते, धुनाति / दुधुवे, दुधाव / "धूगौदितः" 4 / 4 / 38 इति वेट् , धोता, धविता / " धूगसुस्तोः०" 4 / 4 / 85 इतीटि अधावीत् / णौ "धूगप्रीगो०" 4 / 2 / 18 इति ने विधूनयति / किति " उवर्णात् " 4 / 4 / 58 इति नेट् , “ऋल्वादेः०" 4 / 2 / 68 इति क्तक्तीनां तो नत्वे धूनः, धूनवान् . धूनिः / धूग्टू कम्पने [ 46], धूनुते, धूनोति / धूत् विधूनने [5 / 116], धूवति / धूगण कम्पने [ 9 / 379 ], युजादित्वाद् वा णिचि धूनयति, धवते, धवति // ___ अथ ऋदन्तास्त्रयः सेटश्च // 14 स्तृगश् आच्छादने' / वादित्वाद् हुस्वे स्तृणीते, स्तृणाति / “स्कृच्छ्तो०" 4 / 3 / 8 इति गुणे तस्तरे / णवि तस्तार / " वृतो नवा०" 4 / 4 / 35 इति वा इटो दीर्घ स्तरिता, स्तरीता; आस्तरितम् , आस्तरीतुम् / " इट् सिजाशिषोरात्मने" 4 / 4 / 36 इति वेट् , आस्तरिष्ट, आस्तरीष्ट / “ऋवर्णात् " 4 / 3 / 36 इति सिचः कित्त्वे आस्तीट / आस्तरिषीष्ट, आस्तीर्षीष्ट / सनि “इवृध०" 4 / 4 / 47 इति वेट , आतिस्तरिषति, आतिस्तरीषति, आतिस्तीर्षति / किति "ऋवर्णश्रि" 4457 इति नेट , "ऋल्वादेः०॥ 4 / 2 / 68 इति तक्तीनां तो ने आस्तीणः, आस्तीर्णवान् , आस्तीणिः / णौ डे सन्वद्भावापवादे "स्मृदृत्वर०" 4 / 1 / 65 इति पूर्वस्याऽत्वे अतस्तरत् / “ऋवर्ण" 5 / 1 / 17 इति ध्यणि आस्तार्यः / “अयज्ञे स्वः" 5 / 3 / 68 इत्यलपवादे पनि शङ्खप्रस्तारः / यज्ञे तु बर्हिष्प्रस्तरः / " वेरशन्दे०" 5 / 3 / 69 इति घनि पटस्य विस्तारः; शब्दे तु वाक्यविस्तरः / " छन्दोनाम्नि" 5 / 370 विष्टारपतिः / 'वृक्षासनयोः विष्टरः; उभत्रय "वेः स्वः" 2 / 3 / 23 इति षत्वम् / " अवात् तृस्तृभ्याम् " 5 / 3 / 133 इति करणाधारे पनि अवस्तारः / अलि घे वा स्तरो वस्त्रभेदः / उणादौ "तृस्तृतन्द्रि०" ( उ० 711) इति ईः स्तरीः शय्या / " सृहभृ० " ( उ० 918) इति ईमनि स्तरीमा प्रावारः // 1. वृक्षासनोवि इति मु०, तुलना /