________________ 292 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 10 नामानि ग्राहम् आह्वयति, " तृतीयोक्तं वा" 3 / 1 / 50 इति वा समासः। उणादों " ऋहसू० " ( उ० 638 ) इत्यणौ ग्रहणिः प्रवाहिका // अथ क्रयाद्यन्तर्गणः प्वादिः "प्वादेर्हस्वः" 4 / 2 / 105 इति इस्वप्रयोजनः प्रदर्श्यते // तत्रोदन्तास्त्रयः सेटश्च // '11 पूगश् पवने' / पवनं शुद्धिः / " प्यादेः०" 4 / 2 / 105 इति ह्रस्वे पुनीते, पुनाति / पुपुवे, पुपाव, पविता, पवितुम् / किति " उवर्णात् " 4 / 4 / 58 इति नेद् , पूतः, पूतवान् / नाशे " पूदिवि०" 4 / 2 / 72 इति क्तयोस्तस्य नत्वे पूना यवाः, नाशादन्यत्र पूतं धान्यम् / " पुव० " 5 / 2 / 85 इति इत्रे पवित्रोर्हन् / "ऋषिनाम्नोः करणे " 5 / 2 / 86 पवित्रः ऋषिः, पवित्रं दर्भादि / “हलक्रोडा." 5 / 2 / 89 इति त्रुटि हलसूकरयोः पोत्रं मुखमित्यर्थः / “निरः" 5 / 3 / 21 इति पनि निष्पावः / “न ख्यापूग०" 2 // 390 इति प्रतिषेधात् " स्वरात" 2385 इति णत्वाभावेऽनटि प्रपवनम् , परिपवनम् / णौ “णे " 23 / 88 इति णत्वविकल्पाभावे प्रपावनम् , परिपावनम् / उणादौ " हुपूद्ग" (उ० 863) इति त: पोता ऋत्विक / “पुत्रादयः" (उ० 455) इति / निपातनात् पुत्रः। पूङ पवने [ 11600 ], पवते / / अथ प्वाद्यन्तर्गणो ल्वादिः “ऋल्वादेः०" 4 / 2 / 68 इति नत्वार्थः प्रदर्श्यते // ___ +12 लूगुश छेदने' / " वादेः०” 4 / 2 / 105 इति * हुस्वे लुनीते, लुनाति / लुलुवे, लुलाव, लविता, लवितुम् / सनि " ग्रहगुहश्च० " 4 / 4 / 59 इति नेटू , लुलूपति / णो सनि " ओर्जान्तस्था०" 4 / 1160 इति पूर्वस्योतः इत्वे लिलावयिषति / णौ डे " असमानलोपे० " 4 / 1 / 63 इति सन्वत्वे अलीलवत् / किति " उवर्णात् ' 4 / 4 / 58 इति 'नेट् , “ऋल्वादेः० " 4 / 2 / 68 इति क्तकीनां तो नत्वे लूनः, लूनवान् , लूनिः / “पुसृल्लो." 5 / 1169 इत्यके साधु लुनाति लवकः / “लू-धू-मू०" 5 / 2 / 87 इति इत्रे लूयतेऽनेन लवित्रम् / " निरमः " 53 / 21 इत्यलपवादे घनि अभिलावः / उणादौ “धालू." ( उ० 70) इत्याणके लवाणकः कालः / “शीभी०" ( उ० 71) इत्यानके लवानको दात्रम् / “लूम्रो वा" ( उ० 202) इति वा किति ते लूता क्षुद्र 1. वेट इति मु० //