________________ 10 ] धातुपारायणे क्रयादयः (8) ___9 गश् हिंसायाम् ' / गतावित्यन्ये / द्रुणीते, द्रुणाति, दुद्रुवे, दुद्राव, अद्रावीत् , द्रविता, द्रवितुम् // अथ हान्तः सेट् च // '10 ग्रहीश् उपादाने ' / उपादानं स्वीकारः / " ग्रहश्च० " 4 / 1 / 84 इति स्वृति गृह्णीते, गृह्णाति, जगृहे, जग्राह / " गृह्णो०" 4 / 4 / 34 इति इटो दीर्धे ग्रहीता, ग्रहीतुम् / " व्यञ्जनादेः०" 4 / 3 / 47 इति वा वृद्धः " न विजागृ." 4 / 3 / 49 इति प्रतिषेधाद् अग्रहीत् / “रुदविद०" 4 / 3 / 32 इति क्त्वासनोः कित्त्वे गृहीत्वा / " ग्रहगुहश्च० " 4 / 4 / 59 इति सनि नेट , जिघृक्षति / भावकर्मणोः "स्वरग्रह" 3 / 4 / 69 इति वा जिटि ग्राहिष्यते, ग्रहीष्यते. अग्राहिषाताम् , अग्रहीषाताम् , ग्राहिषीष्ट, ग्रहीषीष्ट, ग्राहिता, ग्रहीता / “पदास्वैरि०" 5 / 1 / 44 इति क्यपि प्रगृह्य पदम् , अवगृह्य पदम् ; गृह्यका इमे परतन्त्रा इत्यर्थः / ग्रामगृह्याः ग्रामाद् बाह्या इत्यर्थः, पक्ष्येऽर्जुनगृह्याः / “गेहे०" 5 / 1 / 55 इति के गृहम् / " वा ज्वलादि०" 5 / 1 / 62 इति णे ग्राहो जलचरः, पक्षेऽचि ग्रहः सूर्यादिः / " ग्रहादिभ्यो० " 5 / 153 इति णिनि ग्राही / “असरूपो०" 5 / 1 / 16 इति णके ग्राहकः / तृचि ग्रहीता / " धनुर्दण्ड 0" 5 / 1 / 92 इत्यणपवादेऽचि धनुग्रहः, दण्डग्रहः, सरुग्रहः इत्यादि / " सूत्राद् धारणे" 5 / 1 / 93 सूत्रग्रहः, धारणादन्यत्र “कर्मणोऽण" 5 / 1 / 72 इत्यणि सूत्रग्राहः / “रजःफले." 5 / 1 / 98 इत्यौ रजोग्रहिः, सूत्रनिपातनाद् एत्वे फलेग्रहिः, मलग्रहिः / "सृग्लहः०" 5 / 3 / 31 इत्यलि निपातनाद् ग्लहः अक्षाणाम् / " वर्षविघ्ने" 53 / 50 इति वालि अवग्रहः, पक्षे घनि अवग्राहः / “प्राद् रश्मि० " 5 / 3 / 51 इति वालि प्रग्रहः, प्रग्राहः, रज्जुः तुलासूत्रं च / उत्पूर्वस्य “ग्रहः" 5 / 3 / 55 इति धजि उद्ग्राहः / "न्यवाच्छापे" 5 / 3 / 56 निग्राहः ते वृषल भूयात् ' / एवम् अवग्राहः / “प्राल्लिप्सायाम् " 5 / 3 / 57 ' पात्रप्राहेण चरति पिण्डपातार्थी ' / "समो मुष्टौ" 5 / 3 / 58 संग्राहः मुष्टेर्दाढयम् / " यज्ञे ग्रहः" 5 / 3 / 65 पूर्वपरिग्राहः, उत्तरपरिग्राहः, वेदेर्यज्ञाङ्गभूताया ग्रहणविशेषः / स्त्रियां तो " तेहादिभ्यः" 4 / 4 / 33 इतीटि गृहीति:, निगृहीतिः / “कृगग्रहो." 5 / 4 / 61 इति गमि जीवग्राहं ग्रहीतः / " हस्तार्थाद् ग्रह" 5 / 4 / 66 इति णमि हस्तेन ग्रहणं हस्तग्राहं गृह्णाति / " नाम्ना ग्रहा." 5 / 4 / 83 इति णमि नामानि ग्रहीत्वा नामग्राहम् , 1. ग्रह गृह' इति मु० // 2. सनि वेट जि° इति मु० //