________________ 29.] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३अथेदन्तास्त्रयोऽनिटश्च // '3 प्रींगश तृप्तिकान्त्योः' / कान्तिः अभिलाषः / प्रीणीते, प्रीणाति / पिप्रिये, पिप्राय / अनुस्वारेत्वान्नेट् , प्रेता, प्रेतुम् , प्रीतः, प्रीतवान् / णौ "धूगप्रीगो:०" 4 / 2 / 18 इति ने प्रीणयति / " नाम्युपान्त्य०" 51 / 54 इति के प्रियः / " स्थादिभ्यः" 5 / 3 / 82 इति कर्मणि के प्रियः / प्रींच प्रीती [ 3 / 110 ], प्रीयते / श्रीगण तर्पणे [9 / 378 ], " युजादेः०" 3 / 4 / 18 इति वा णिचि प्रीणयति, प्रयते, प्रयति // - "4 'श्रींग पाके' / श्रीणीते, श्रीणाति, शिश्रिये, शिश्राय / अनुस्वारेचाभेट , श्रेता, श्रेतुम् , श्रीतः, श्रीतवान् / क्तौ श्रीतिः // 5 मींगा हिंसायाम् ' / मीनीते, मीनाति / " अदुरुपसर्गा० " 2377 इति णे प्रमीणाति / एकदेशविकृतस्याऽनन्यत्वात् प्रमीणीते / मिम्ये, ममौ / यबङिति “मिग्मीगो०" 4 / 2 / 8 इत्यात्वे प्रमाय / णौ प्रमापयति / अनुस्वारेवान्नंट , माता, मास्यति खलचलि तु नाऽऽत्वम् , दुर्मयः / अचि अलि च मयः, प्रमयः विङति प्रमीतः, प्रमीतवान् . प्रमेमीयते / " मिमीमा०" 4 / 1 / 20 इति सनि स्वरस्येति द्वित्वाभावे च प्रमित्सते, प्रमित्सति / " शाम्रयुधि०" 5 / 3 / 141 इति खलपवादेऽने दुर्मानम् , सुमानम् / उणादौ. " मीमसि०" ( उ० 427 ) इत्यूरे बाहुलकानाऽऽत्वम् , मयूरः // अथोदन्तावनिटौ च // '6 युगश बन्धने' / युनीते, युनाति, युयुवे, युयाव / अनुस्वारेच्चान्नेट् , योता, योतुम् , युयुषति / " इवृध०" 4447 इति वेटि थियविषति / " नीदा० 0" 5 / 2 / 88 इति त्रुटि योत्रम् / युक् मिश्रणे [ 2222 ], यौति, यविता / युणि जुगुप्सायाम् [9 / 237 ], यावयते // 5. 7 स्कुंगश आप्रवणे' / आप्रवणम् उद्धरणम् / " स्तम्भू-स्तम्भू०" 3 / 4 / 78 इति श्राः नुश्च, स्कूनीते, स्कुनाति, स्कुनुते, स्कुनोति / चुस्कुवे, . चुस्काव / अनुस्वारेत्वान्नेट , स्कोता, स्कुतः, स्कुतवान् // ... .., अथोदन्तौ सेटौ च // ....8 क्नूगर शन्दे' / क्नूनीते, क्नूनाति, चुक्नुवे, चुक्नाव, अनावीत् / क्नविता / किति " उवर्णात् " 4 / 4 / 58 इति नेट् , क्नूतः, क्नूतवान् , क्नूत्वा //