________________ अथ क्यादयः (8) // अथ क्रयादयः श्नाविकरणा वर्णक्रमेण प्रस्तूयन्ते, तत्राऽऽदौ. 1 डुक्रींगश द्रव्यविनिमये' / विनिमयः परिवर्तः / शिवं क्रयादित्वज्ञापनार्थम् / गित्वाद् " ईगितः " 3 / 3 / 95 इति फलवत्कर्तर्यात्मनेपदे “क्रयादेः" 3 / 479 इति श्ना, " एषामी० " 4 / 2 / 97 इति तस्य ईत्वे क्रीणीते / फलवतोऽन्यत्र " शेषात् " 33 / 100 इति परस्मैपदे, क्रीणाति / “परिव्यवात्० " 3 / 3 / 27 इत्यात्मनेपदे परिक्रीणीते, विक्रीणीते, अवक्रीणीते / “नश्चा०" 4 / 2 / 96 इति श्न आल्लुकि क्रीणन्ति / “संयोगात् " 2152 इति इयि चिक्रिये / " नामिनो० " 4 / 3 / 51 इति वृद्धौ चिक्राय / “णी क्रीजी." 4 / 2 / 10 इत्यात्वे क्रापयति / अनुस्वारेचान्नेट् , क्रेता, केतुम् / “परिक्रयणे" 2 / 2 / 67 इति वा चतुर्थी शताय परिक्रीतः, पक्षे करणे तृतीयैव, शतेन परिक्रीतः। "क्रीतात् करणादेः" / 4 / 44 इति ड्याम् अश्वक्रीती / “य एचा०" 5 / 1 / 28 इति ये “क्रय्यः क्रयार्थे " 4 / 3 / 91 इति निपातनाद् अयि क्रय्या गौः, तदर्थादन्यत्र क्रेयम् / " निन्द्ये व्याप्याद्" 5 / 1 / 159 इतीनि सोमविक्रयी, निन्द्यादन्यत्र, “कर्मणोऽण " 5 / 1 / 72 धान्यविक्रायः / अचि अलि च क्रयः / डिवन्यात् त्रिमकि क्रीत्रिमम् / उणादौ “क्रीकलि०" (उ० 38 ) इतीके क्रयिकः क्रेता / " कावावी० " ( उ० 634 ) इति गौ क्रेणिः क्रयविशेषः // अथेदन्तोऽनिट् च // _ '2 पिंगशु बन्धने' / “पः सो० " 2 / 3 / 98 इति से सिनीते, सिनाति / पोपदेशवाद् "नाम्यन्तस्था०" 2 / 3 / 15 इति थे सिष्ये, सिपाय / “सिचि परस्मै०" 4 / 3 / 44 इति वृद्धौ असैपीत् / " णिस्तोरेवा० " 2 / 3 / 37 इति नियमात् सनि न षत्वम् , सिसीपति / अनुस्वारेवान्नेट् सेता, सेतुम् / " सेासे०॥ 4 / 2 / 73 इति क्तयोस्तस्य नत्वे सिनो ग्रासः स्वयमेव / सिनोतेरेव नत्वमित्येके, तन्मते सितो ग्रासः : स्वयमेव / कर्मकर्तुरन्यत्र सितः पाशेन / पिंग्टु बन्धने [ 4 / 2], सिनुते, सिनोति // 1.37