________________ 294 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 1515 कगश हिंसायाम् ' / " प्वादेः० " 4 / 2 / 105 इति ह्रस्वे कृणीते, कृणाति / “स्कृच्छ्तो० " 4 / 3 / 8 इति गुणे चकरे, चकार / " वृतो नवा." 4 / 4 / 35 इति इटो वा दीर्घ करिता, करीता / सनि " इवृध० " 4 / 4 / 47 इति वेटि चिकरिषते, चिकरीपते, चिकीर्षति / किति " ऋवर्णश्रि." 4 / 4 / 57 इति नेट , " ऋल्वादेः०" 4 / 2 / 68 इति ने कीर्णः, कीर्णवान् , कीणिः / क्ये कीर्यते / उणादौ " कृगश०" ( उ० 441 ) इति वरटि करो व्याघः / कबरी भूमिः / " कपकटि० " ( उ० 589 ) इन्यहे करहो धान्यावपनम् / हूस्वान्तोऽयमित्येके / कृत् विक्षेपे [ 5 / 20 ], किरति // '16 वृगश वरणे.' / " वादेः०" 4 / 2 / 105 इति हस्वे वृणीते, वृणाति / " स्कृच्छ्तो०" 4 / 3 / 8 इति गुणे ववरे, ववरुः / “वृतो नवा०" 4 / 4 / 35 इति इटो वा दीर्घ वरिता, वरीता / किति "ऋवर्णश्रि" 4457 इति नेट् , " ऋल्वादेः०" 4 / 2 / 68 इति ने पूर्णः, वर्णवान् , वृणिः / सनि " इध०" 4 / 4 / 47 इति वेटि विवरिषति, विवरीषति, वुवूषति / उणादौ "ऋक्व० " ( उ० 196) इत्युणे वरुणः; तस्य भार्या " वरुणेन्द्र०" 2 / 4 / 62 इति ङ्याम् आनि चान्ते वरुणानी / ह्रस्वान्तोऽयमिति नन्दी // अथ परस्मैपदिषु आदन्तोऽनिट् च // 17 ज्यांश हानौ' / वयोहानी इत्येके / " शेषात" 3 / 3 / 100 इति परस्मैपदे " ज्याव्यध० " 4 / 1 / 81 इति कृति " दीर्घमवो० // 4 / 1 / 103 इति दी " वादेः०" 4 / 2 / 105 इति हस्वे जिनाति / " ज्याव्येव्यधि० " 4 / 1 / 71 इति पूर्वस्य इत्ये जिज्यौ / थवि " सृजिदृशि०" 4 / 4 / 78 इति वेटि जिज्यिथ, जिज्याथ / अनुस्वारेचान्नेट् , ज्याता, ज्यातुम् , जीवा / "ऋल्वादेः०" 4 / 2 / 68 इति ने जीनः, जीनवान् / स्त्रियां क्तिमपीच्छन्त्येके, जीनिः। “ग्लाहा." 5 / 3 / 118 इति अनौ ज्यानिः / अणपवादे " आतो डो०" 5 / 1176 इति डे ब्रह्मज्यः / “ज्यश्च यपि" 4 / 1 / 76 इति स्वृदभावे प्रज्याय / जिन इति तु “जी.” ( उ० 261 ) इति किति ने जयतेः // अथेदन्ताश्चत्वारोऽनिटश्च // 118 रीश गतिरेषणयोः' / रेषणं हिंसा / " वादेः०" 4 / 2 / 1-05 इति इस्वे रिणाति / रिराय / " योऽनेकस्वरस्य " 2 / 1156 इति यत्वस्य बहिरङ्गत्वेन