________________ 8] धातुपारायणे तनादयः (7) [ 287 इति रस्य प्रतिषेधे " स्वरादेः०" 4 / 1 / 4 इति ने: एव द्वित्वे अणिनिषति / ऊदिचात् क्त्वि वेट् , "यमिरमि० " 4 / 2 / 55 इति नलुकि ऋत्वा / इटि " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे अर्णित्वा / वेदत्वात् क्तयोर्नेट् , ऋतः, ऋतवान् / क्तौ ऋतिः // - '6 तृणूयी अदने' / अदाने इत्यन्ये / " रघुवर्णात्० " 2 / 3 / 63 इति नस्य णत्वे तणुते, तर्णोति, ततृणे, ततर्ण, तर्णिता, तणितुम् / ऊदिचात् क्त्वि वेट , " यमिरमि०" 4 / 2 / 55 इति नलुकि तृत्वा / इटि " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावे तर्णित्वा / वेट्त्वात् क्तयोर्नेट , तृतः, तृतवान् / “तिकृतौ० " 5 / 1171 इति तिकि "न तिकि०" 4 / 2 / 59 इति दीर्घ नलुकोः अभावे " नां०" 1 / 3 / 39 इति णत्वापवादे नस्य ने तृन्तिः / क्तौ तृतिः // '7 घृणूयी दीप्तौ' / " लघोः०" 4 / 3 / 4 इति गुणे "रघुवर्णात्" 2 / 3 / 63 इति नस्य णे घणुते, घर्णोति, जघृणे, जघर्ण, घर्णिता, घर्णितुम् / अदित्वात् क्त्वि वेट , " यमिरमि० " 4 / 2 / 55 इति नलुकि घृत्वा / इटि "क्त्वा" 4 / 3 / 29 इति किवाभावे घर्णित्वा / वेटत्वात् क्तयोर्नेट् , घृतः, घृतवान् घृतम् / “तिकृतौ० " 5 / 1 / 71 इति तिकि " न तिकि० " 4 / 2 / 55 इति दीर्घनलुकोरभावे "म्नां० " 113 / 39 इति नस्य णापवादे ने घृन्तिः / णान्तोऽयमित्येके, तन्मते " तवर्गस्य” 1360 इति तस्य टे घृण्टिः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के घृगा। तो घृतिः / उणादौ " नाम्युपान्त्य० " ( उ० 609) इति किद् इ., घृणिः / उविकरणे ऋणू-तृणू घृणूधातूनां गुणं नेच्छन्त्येके; ऋणुते, ऋणोति; तृणुते, तृणोति; घृणुते, घृणोति / अकारोपान्त्यो णान्तश्चायमिति शिवः; घणोति, जघाण; घतः, घतवान् / तिकि घण्टिः / / अथात्मनेपदिनौ नान्तौ सेटौ च // 8 वयि याचने ' / इदित्वाद् " इङितः०" 3322 इत्यात्मनेपदे वनुते / “अनादेशादेः" 4 / 1 / 24 इति एत्वस्य " न शस-दद." 4 / 1 / 30 इति प्रतिषेधे ववने / वनिता, वनितुम् / ऊदित्वात् क्त्वि वेट , “यमिरमि०" 4 / 2 / 55 इति नलुकि वत्वा, इटि वनित्वा / वेटत्वात् क्तयोर्नेट , वतः, वतवान् / णौ " कगेवनू० " 4 / 2 / 25 इति इस्वे अववनयति, संवनयति / अनुपसर्गस्य तु "ज्वल-बल०" 4 / 2 / 33 इति वा हस्वे वानयति, वनयति / “तिकृतौ०" 5 / 171 इति तिकि " न तिकि० " 4 / 2 / 55 इति दीप नलुकोः अभावे वन्तिः /