________________ 286 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 2 '2 षणूयी दाने' / “ष: सो० // 2 // 3 / 98 इति से निमित्ताभावाद् णस्य ने सनुते सनोति / " व्यञ्जनादेः०" 4 / 3 / 47 इति वाऽतो वृद्धौ असानीत् , असनीत् / " तन्म्यो वा." 4 / 3 / 68 इति सिज्नयोः वा लुपि " सनस्तत्रा०" 4 / 3 / 69 इति वाऽऽत्वे असात, असत, असनिष्ट; असाथाः, असथाः, असनिष्ठाः / सेने, ससान, सनिता, सनितुम् / " इवृध०" 4 / 4 / 47 इति सनि वेट , "नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे " सनि" 4 / 2 / 61 इत्यात्वे सिषासति, पक्षे सनि षत्वभूते "णिस्तोरेवा० " 2 / 3 / 37 इति नियमाद् न पत्वम् , सिसनिषति / ऊदित्वात् क्त्वि वेट् , " आः खनि." 4 / 2 / 60 इत्यात्वे सात्वा, पक्षे सनित्वा / वेट्त्वात् क्तयोर्नेट् , सातः, सातवान् / "ये नवा " 4 / 2 / 62 इत्यात्वे सायते, सन्यते / “तिकृतौ०" 5 / 171 इति तिकि " न तिकि०" 43259 इति दीर्घ नलुगभावे सन्तिः / " तो सन०" 4 / 2 / 64 इति वाऽऽत्वनलुकोः, सातिः, सतिः / “सातिहेति०" 5 / 3 / 94 इति क्तौ सातिः / उणादो "वापा०" (उ० 1) इत्युणि सानुः प्रस्थः / / '3 क्षणूग् 4 क्षिणूयी हिंसायाम् ' / “रवर्णात्" 2 / 3 / 63 इति नस्य णत्वे क्षणुते, क्षणोति, चक्षणे, चक्षाण / " व्यञ्जनादेः " 4 / 3 / 47 इति वा वृद्धः "न विजागृ" 4 / 3 / 49 इति प्रतिषेधे अक्षणीत् / क्षणिता / ऊदिचात् क्त्वि वेट , " यमिरमि० " 4 / 2 / 55 इति नलुकि क्षत्वा, इटि क्षणित्वा / वेट्त्वात् क्तयोर्नेट् , क्षतः, क्षतवान् / “न तिकि०" 4 / 2 / 59 इति दीर्घ नलुकोः प्रतिषेधे "म्नां" 1 / 3 / 39 इति णत्वापवादे नस्य ने क्षणुतात् क्षन्तिः / स्त्रियां क्तौ क्षतिः / '4 क्षिणूयी' / " रघुवर्णात् " 2 / 3 / 63 इति नस्य णे गुणं नेच्छन्त्येके; क्षिणुते, क्षिणोति; चिक्षिणे, चिक्षेण क्षेणिता, क्षेणितुम् / ऊदित्वात् क्त्वि वेट , " यमिरमि० " 4 / 2 / 55 इति नलुकि क्षित्वा / इटि " वो व्यञ्जनादेः०" 4 / 3 / 25 इति वा किन्वे क्षिणित्वा क्षेणित्वा / वेट्त्वात् क्तयोर्नेट , क्षितः, क्षितवान् / " तिकृतौ०" 5 / 1171 इति तिकि " न तिकि०" 4 / 2 / 59 इति दीर्घनलुकोः अभावे " म्नां" 113 / 69 इति णत्वापवादे नस्य ने क्षिन्तिः, क्तो क्षितिः / अमुं न पठन्त्येके // '5 ऋणूयी गतौ' / " रघुवर्णात् " 2 / 3 / 63 इति नस्य णे "लघोः०" 4 / 3 / 4 इति गुणे अणुते, अर्णोति / " अनातो० " 4 / 1 / 69 इति पूर्वस्य आत्वे नेऽन्ते च आनृणे, आनर्ण / अर्णिता, अर्णितुम् / सनि “अयि H" 416