________________ अथ तनादयः (7) // अथ तनादय: उविकरणा वर्णक्रमेण प्रदर्श्यन्ते, तत्र उभयपदिष्वादौ नान्ताः सप्त सेटश्च // ___ 1 तनूयी विस्तारे' / यित्त्वं तनादित्वज्ञापनार्थम् / ईदित्वाद् -- ईगितः " 3 / 3 / 95 इति फलवकर्तयात्मनेपदे " कृगतनादेः० " 3 / 4 / 83 इत्यौ च तनुते / फलवतोऽन्यत्र “शेषात् ". 3 / 3 / 100 इति परस्मैपदे तनोति / “वम्यविति० " 4 / 2 / 87 इति वा उतो लुकि तन्वः, तन्मः; तनुवः, तनुमः / तथासोः " तन्भ्यो वा०" 4 / 3 / 68 इति वा सिजनयोः लुप् न चेट , अतत, अतनिष्ट, अतथाः, अतनिष्ठाः / " तनः क्ये" 4 / 2 / 63 इति नस्य वाऽऽत्वे तायते, तन्यते / तेने, ततान, तनिता, तनितव्यम् / " इवृध० " 4 / 4 / 47 इति सनि वेट् , "तनो वा" 4 / 1 / 105 इति वा दीर्घ तितांसति, तितंसति, पक्षे तितनिषति / ऊदित्वात् क्वि वेट , " यमिरमि०" 4 / 2 / 55 इति नलुकि तत्वा; इटि तनित्वा / वेदत्वात् क्तयोर्नेट , ततः, ततवान् / " तन्व्यधी०" 5 / 1164 इति णे तानः, अवतानः, वितानः / " तिकृतौ०" 5 / 1171 इति तिकि " न तिकि०" 4 / 2 / 59 इति दीर्घनलुकोरभावे तन्तिः तन्त्रीः / विपि " गतिकारकस्य०" 3 / 2 / 85 इति दीर्धे "गमां०" 4 / 2 / 58 इति नलुकि परीतत् / घनि वितान:, संतानः, एकतानः / स्त्रियाँ क्तो तति: पङ्क्तिः / “यपि" 4 / 2 / 56 इति नलुकि प्रतत्य, वितत्य / उणादौ " सुसि-तनि-तुसेर्दीश्च वा" ( उ० 203) इति वा किति ते तातः पिता, ततं वाद्यविशेषः / " कृधूतनि०" ( उ० 440 ) इति किति सरे तसरः कौशेयसूत्रम् , 'तसरः सूत्रवेष्टनम् / त्रसरस्तु पट्टसूत्रम् इत्येके / “ट् " (उ० 446) इति त्रुटि तन्त्रं प्रधानम् / " कुगुवलि०" ( उ० 365 ) इत्यन्ये तनयः पुत्रः / " भृमृत०" ( उ० 716 ) इत्युः तनुः / " कृसिकम्मि० " ( उ० 773) इति तुनि तन्तुः / " कृषिचमि० " ( उ० 829 ) इत्यूः, तनू: काय: / " तनेर्डउः" ( उ० 748) सन्वत् च, तितउः परिवपनम् / “तनेड्व च" ( उ० 872) त्वक् / तोकं तुक् इति च तौतेः के किकि च / तण्डुल इत्यपि तण्डेः उले // 1. त्रसरः सूत्रवेष्टनम् , अ. चि. 3577, तसरः सूत्रवेष्टनम् , त्रसरस्तु पट्टसूत्रम् / (क्षी. त. 261) //