________________ 284 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 26" सेः सद्धां०" 4 / 3 / 79 इति सिचो लुकि सस्य वा रुत्वे च अहिनः त्वम् , अहिनत् त्वम् / “हुधुटो." 4 / 2 / 83 इति हेः धौ "सो धि वा" 4 / 3 / 72 इति सो वा लुकि हिन्धि, हिन्द्धि / हिंसिता, हिसितः / अचि हिंसः / " निन्दहिंस०" 52 / 68 इति णके हिंसाशीलः हिंसकः / “स्म्यजस०" 5 / 2 / 19 इति रे हिंस्रः / "क्टो. " 5 / 3 / 106 इत्यः, हिंसा / उणादौ "खलिहिंसिभ्यामीनः" ( उ० 286) हिंसीनः श्वापदः / " कशप० " ( उ० 418) इति. ईरे हिंसीरो हिंस्रः / “हिंसेः सिम् च" ( उ० 588 ) इति हे सिंहः // .. अथ हान्तः सेट च // '23 तृहप्' / “तृहः श्नादीत " 4 / 3 / 62 इति तृणेढि / दिवि अत्णेट् / ततह, तर्हिता, तृहितः / तृणम् इति तु “भ्रूणण " ( उ० 186) इति निपातनाद् णे तरतेः // अथ आत्मनेपदिषु दान्तावनिटौ च // '24 खिदिप दैन्ये ' / इदिचाद् " इङितः०" 3 / 3 / 22 इत्यात्मनेपदे खिन्ते, चिखिदे / अनुस्वारेवाद् नेट् , खेत्ता, खिन्नः / खिदिच दैन्ये [3 / 116], खिद्यते / खिदंत परिघाते [ 5/12], खिन्दति // ___'25 विदिप विचारणे' / विन्ते, विविदे / अनुस्वारेवान्नेट , वेत्ता / "ऋही." 4 / 2 / 76 इति क्तयोस्तस्य वा नत्वे विनः, विन्नवान् , वित्तः, वित्तवान् // अथ धान्तः सेट् च // ___ '26 जिइन्धैपि दीप्तौ' / इन्द्धे / “धुटो धुटि स्वे वा” 113148 इति दलुकि इन्धे / " जाग्रुष० " 34 / 49 इति परोक्षाया वा आमि समिधांचक्रे, समीधे / इन्धिता / एदित्वात् क्तयोर्नेट् , जीवात् सति क्ते समिद्धः, समिद्धवान् / कर्मणोऽणि "भ्राष्ट्राग्नेः०" 3 / 2 / 114 इति मे भ्राष्टमिन्धः, अग्निमिन्धः / क्यिपि अग्नीत् / संपदादिविवपि समित् / “दशना०" 4 / 2 / 54 इति निपातनाद् नो लुकि घनि एधः / उणादौ "ऋज्यजि०" (उ० 388 ) इति किति रे वीधं विमलम् / “येन्धिभ्यां०" (उ० 968 ) इत्यसि, एधादेशे च एध: // इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे नविकरणः पिद् रुधादिगणः सम्पूर्णः //