________________ 19 ] धातुपारायणे रुधादयः (6) [ 283 इति नस्य द्वित्वाभावे " स्वरादेः०" 4 / 1 / 4 इति देरेव द्वित्वे उन्दिदिषति / ऐदित्वात् क्तयोर्नेट् , " ऋही." 4 / 2 / 76 इति क्तयोस्यस्य वा नत्वे समुन्नः, समुन्नवान् , समुत्तः, समुत्तवान् / “दशनावोद०" 4 / 2 / 54 इति निपातनाद् पनि अवोदः / मनि ओम, ओद्मनी / उणादौ " ध्रुधून्दि०" (उ० 29) इति कित्यके उदकम् / " उन्दे लुक च" (उ० 271) इत्यने ओदनः / "ऋज्यजि०" ( उ० 388) इति किति रे उद्रः ऋषिः / समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्यः अस्मात् इति समुद्रः / इन्द्र इति तु " मीधि०" ( उ० 387 ) इति रे इन्दतेः / " मृयुन्दि०" (उ० 399) इति कित्यरे उदरम् / “वाश्यसि०" ( उ० 423) इन्युरे उन्दुरः / “ऋजिरिषि०" (उ० 567) इति किति से उत्सः प्रस्रवणम् // अथ षान्तावनिटौ च // '20 शिष्लंप विशेषणे ' / विशेषणं गुणान्तरोत्पादनम् / शिनष्टि, विशिनष्टि / क्ये विशिष्यते / विशिशेष / लदिवाद् अङि अशिषत् / अनुस्वारेवान्नेट् , शेष्टा, शेष्टुम् , शिष्टः / " ऋवर्ण०" 5 / 1 / 17 इति ध्यणि विशेष्यः / कर्मणि आत्मनेपदे " हशिटो०" 3 / 4 / 55 इति सकि व्यशिक्षन्त / घनि विशेषः / विनयादित्वात् स्वार्थे इकणि वैशेषिकः / शिषण असर्वोपयोगे [ 9 / 410 ], युजादित्वाद् वा णिचि शेषयति / अलि विशेषः / पक्षे शेषति / घनि शेषः // '21 पिप्लंप संचूर्णने ' | " जासनाट० " 2 / 2 / 14 इति वा कर्मणः कर्मन्वे. “शेषे" 2 / 2 / 81 इति षष्ठयां चौरस्य पिनष्टि, चौरं पिनष्टि / हिंमार्थाद् अन्यत्र धानाः पिनष्टि / पान्तत्वाद् “अकखाद्य०" 213180 इति नेर्वा णत्वाभावे प्रनिपिनष्टि / पिपेष / लुदिचादङि अपिषत् / कर्मणि आत्मनेपदे "हशिटो." 3 / 4 / 55 इति सकि अपिक्षन्त / अनुस्वारेचान्नेट् , पेष्टा, पेष्टुम् , पिष्टः / घनि निष्पेषः / “शुष्कचूर्ण०" 64 / 60 इति णमि शुष्कपेष पिनष्टि / एवं चूर्णपेषम् , रूक्षपेषम् / " स्वस्नेहनार्थात्०" 5 / 4 / 65 इति णमि तैलपेषं पिनष्टि / उणादौ " विषेः पिपिण्यौ च " ( उ० 36 ) इत्याके पिनाकं रुद्रधनुः, पिण्याकः तिलखलः / / अथ सान्तः सेट् च // __22 हिसु 23 तृहपू हिंसायाम् ' / उदित्वाद् ने हिनस्ति, जिहिस / दिवि " व्यअनाद् देः०" 4 / 3 / 78 इति दिवो लुकि सस्य दत्वे च अहिनत् / 1. न्त्यी० इति मु० //