________________ 282 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 15. दासः / " भुजेः कित् " ( उ० 802) इति युः भुज्युः ऋषिः / “विश्वाद्विदि०" (उ० 956 ) इत्यसि विश्वभोजा अग्निः / भुजोत् कौटिल्ये [5 / 37], निभुजति / / ___ '16 अनौप व्यक्ति-म्रक्षण-गतिषु' / व्यक्तिः प्रकटता, म्रक्षणं घृतादिसेकः / तत्र केवलस्य म्रक्षणे एव वृत्तिः, सोपसर्गविशेषस्य तु शेषयोरिति विवेकः / अनक्ति, व्यनक्ति / “अनातो." 4 / 1 / 69 इति पूर्वस्याऽऽत्वे नेऽन्ते च आना, आनअतुः / औदिचाद् वेट् , अजिता, अङ्गा / " सिचोऽजेः" 4484 इति इटि आश्रीत् , आञ्जिष्टाम् / " ऋस्मिपू०" 4 / 4 / 48 इति सनि इटि "न वदनं " 4 / 1 / 5 इति नस्य द्वित्वाभावे " स्वरादेः० " 414 इति जेबित्वे अजिजिषति / " जनशो०" 4 / 3 / 23 इति वा क्त्वः किच्चे अक्त्वा, अङ्क्त्वा , इटि अजित्वा / वेट त्वात् क्तयोनेंट , अक्तः, अक्तवान् / “कुप्यभिद्य०" 5 / 1 / 39 इति क्यपि निपातनाद् आज्यं घृतम् / संज्ञाया अन्यत्र “ऋवर्ण" 5 / 1 / 17 इति ध्यणि "क्तेऽनिट०" 4 / 1 / 111 इति गे अग्यम् / उणादौ " पाटयअिभ्यामलि:" ( उ० 702 ) अञ्जलिः / " अफेयवेरिष्ठुः" ( उ० 764 ) अञ्जिष्ठुः भानुः / " अञ्जरिष्णुः" ( उ० 771 ) अञ्जिष्णुः तैलादि / " अफ़ेयर्तेः किन " (उ० 777) इति तुनि अक्तुः इन्द्रः / " अस्" (उ० 952) इत्यसि अनः स्नेहः / / * 17 ओविजैपु भयचलनयोः' / विनक्ति, विङ्क्तः, विवेज / " विजेस्टि" 4 / 3 / 18 इति इटो ङित्वाद् न गुणः, उद्विजिता, उद्विजितुम् / ऐदित्वात् क्तयोनेंट् / ओदिचात् “यत्यादि०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे उद्विग्नः, उद्विग्नवान् / ओविजेति भयचलनयोः [5 / 154 ], उद्विजते // ___ अथ तान्तः सेट च // . "18 कृतैप वेष्टने' / कृणत्ति, कृत्तिः, चकर्त, कर्तिता / सादौ असिचि "कृतचूत०" 4 / 4 / 50 इति वेटि कर्व्यति, कतिष्यति / वेट्त्वात् क्तयोर्नेट् . कुत्तः, कृत्तवान् / ऐदित्वाद् यङ्लुपि अनेकस्वराद् अपि क्तयोर्नेट , चरीकृत्तः, चरीकृत्तवान् / “क्वा" 4 / 3 / 29 इति किवाभावाद् गुणे कतित्वा / सिपि अकर्तीत् / उणादौ " कृतिपुति० " ( उ० 76 ) इति किति तिके 'कृत्तिका / “कृतेस्तर्क च" (उ० 723 ) इत्युः, तर्कुः सूत्रवेष्टनशलाका // ___ अथ दान्तः सेट च // * 19 उन्दैप क्लेदने' / उनत्ति / " गुरुनाम्यादेः " 3 / 4 / 48 इति परोक्षाया आमि उन्दाश्चकार / उन्दिता, उन्दितुम् / सनि " न बदनं० " 4 / 115 1. कृत्तिकाः इति मु०॥ HTTHDCHI