________________ 15 ] धातुपारायणे रुधादयः (6) [ 281 '12 तञ्चू 13 तऔप सङ्कोचने' / “रुधां०" 3 / 4 / 82 इति ने नलुकि च तनक्ति / दिवि अतनक् / ततश्च, तश्चिता / ऊदित्वात् क्त्वि वेट् , तक्त्वा, तञ्चित्वा / वेट्त्वात् क्तयोर्नेट् , तक्तः, तक्तवान् / उणादौ "ऋज्यजि०" ( उ० 388 ) इति किति रे न्यब्यादित्वात् कत्वे तक्रम् / औदिदयमित्येके, तन्मते औदिचाद् वेट् , तङ्क्ता , तश्चिता // अथ जान्ताः पञ्च // 13 ताप्' / तनक्ति, ततञ्ज / औदिचाद् वेट् , तङ्का, तञ्चिता / वेट्त्वात् क्तयोनेट , तक्तः, तक्तवान् / " जनशो०" 4 / 3 / 23 इति तादेः क्त्वो वा किये तकत्वा, तङ्क्त्वा , इटि तभित्वा; " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् न नो लुक्।। 14 भोंपू आमर्दने' / भनक्ति, बभञ्ज / " भञ्जनौं वा” 4 / 2 / 48 इति वा नलुकि अभाजि, अभनि / " व्यञ्जनानाम् " 4 / 3 / 45 इति वृद्धौ अभा ङ्क्षीत् / यङि " जपजभ० " 4 / 1152 इति पूर्वस्य मौ अन्ते बम्भज्यते / अनुस्वारेच्चान्नेट् , भङ्गा, भक्तुम् / ओदिच्चात् " सूयत्यादि०" 4 / 2 / 70 . इति क्तयोस्तस्य नत्वे भग्नः, भग्नवान् / " जनशो०" 4 / 3 / 23 इति तादेः क्त्वो वा कित्त्वे भक्त्वा, भक्त्वा / " भअिभासि०" 5 / 2 / 74 इति घुरे भगुरं काष्ठम् / घनि भङ्गा धान्यविशेषः, भङ्गोऽन्यः // 15 भुजंप् पालनाभ्यवहारयोः' / अभ्यवहारो भोजनम् / भुनक्ति भुवम् / बुभोज / दिवि अभुनक् / त्राणादन्यत्र " भुनजो०" 3 / 3 / 37 इत्यात्मनेपदे हविः भुङ्क्ते / बुभुजे, अभुङ्ग / अनुस्वारेवान्नेट् , भोक्ता, भोक्तुम् / “गत्यर्था." 5 / 1 / 11 इति वा कर्तरि ते भुक्तः चैत्रः अन्नम् , पक्षे कर्मणि भुक्तमन्नं चैत्रेण / भावे भुक्तं चैत्रेण / णौ " गतिबोधा०" 2 / 2 / 5 इत्यणिकर्तुः कर्मत्वे “चल्याहारार्थ०" 3 / 3 / 108 इति फलवत्कर्तर्यपि परस्मैपदे भोजयति चैत्रं पयो मैत्रः / " ऋवर्ण" 5 / 1 / 17 इति ध्यणि "क्तेऽनिट." 4 / 1 / 111 इति गे भोग्या भूः / " भुजो भक्ष्ये" 4 / 1 / 117 इति गत्वाभावे भोज्यम् अन्नम् / “व्यअनाद्" 5 / 3 / 132 इति करणे घनि " भुजन्युज" 4 / 1 / 120 इति निपातनाद् भुज: पाणिः, अन्यत्र गत्वे गुणे च भोगः अहिकायः / " लिहादिभ्यः " 5 / 1 / 50 इत्यचि भोजः / “युजभुज०" 5 / 2 / 50 इति घिनणि भोगी / “शंसि०" : 5 / 3 / 105 - इति अः, बुभुक्षा / उणादौ " रुचिभुजिभ्यां किष्यः" (उ० 384 ) भुजिष्य: