________________ 280 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ७अनुस्वारेच्चान्नेट, क्षोत्ता, क्षोत्तम् , क्षुण्णः / उणादौ " ऋज्यजि०" (उ० 388) इति किति रे क्षुद्रः // 8 ऊछदृपी दीप्तिदेवनयोः' / वमनेऽप्यन्ये / छन्ते, मृणत्ति, चच्छूदे, चच्छर्द, छर्दिता, छर्दितुम् / ऋदिचाद् वाऽडि अच्छृदत् , अच्छीत् / आत्मनेपदे तु अच्छर्दिष्ट / असिचि सादौ " कृतचूत०" 4 / 4 / 50 इति वेट , छद्मति, छर्दिष्यति / सिचि तु नित्यम् इटि अच्छर्दीत् / णौ डे " ऋढवर्णस्य०" 4 / 2 / 37 इति ऋतो वा ऋत्वे अचिच्छ्रदत् , अचच्छर्दत् / ऊदित्वात् क्त्वि वेट् , कृत्वा, छर्दित्वा / वेटूत्वात् क्तयोर्नेट् , कृष्णः, सृष्णवान् / “ऋदुपान्त्याद्०" 5 / 1641 इति क्यपि छूद्यम् / उणादौ " रुच्यचि० " ( उ० 989) इति इसि छर्दिः वान्तिः // ____ 9 ऊपी हिंसाऽनादरयोः' / तन्ते, तृणत्ति, ततृदे, ततर्द / ऋदित्वाद् वाऽङि अतृदत् , अतीत् / आत्मनेपदे तु अतर्दिष्ट / तर्दिता, तदितुम् / असिचि सादौ " कृतचत०" 4450 इति वेट , तय॑ति, तर्दिष्यति / सिचि तु अतदीत् / ऊदित्चात् क्त्वि वेट्, तृत्त्वा, तर्दित्वा / वेट् त्वात् क्तयोर्नेट , तृष्णः, तृण्णवान् / उणादौ " पदिपठि० " ( उ० 607 ) इत्यो वितर्दिः; स्वार्थ के वितर्दिका च वेदिः॥ . अथ परस्मैपदिषु चान्तास्त्रयः सेटश्च // '10 पृचैप सम्पर्के' / " शेषात् 0 " 3 / 3 / 100 इति परस्मैपदे पृणक्ति, पपर्च, पपृचुः / " व्यअनाद् देः०" 4 / 3 / 78 इति दिवो लुकि अपृणक् / संपचिंता / ऐदित्वात् क्तयोर्नेट् , संपृक्तः, संपृक्तवान् / “समः पृचैप्०" 5 / 2 / 56 इति घिनणि संपर्कशीलः संपर्की / घजि "क्तेऽनिटः०" 4 / 1 / 111 इति के पर्कः / मधुना पर्कः मधुपर्कः / संपर्कः / पृचैङ् संपर्चने [ 2.50 ], पृक्ते / पृचण् संपर्चने [ 9 / 385 ], " युजादेः० " 3 / 4 / 18 इति वा णिचि संपर्चयति, संपर्चति / / - 11 वृचैप् वरणे' / वृणक्ति, वृतः, वृश्चन्ति / दिवि अवृणक् / ववर्च, ववृचुः, वचिंता / ऐदिचात् क्तयोर्नेट, वृक्तः, वृक्तवान् / घनि “क्तेऽनिटः० " 4 / 1 / 111 इति के वर्कः / जान्तोऽयमित्यन्ये / जान्तोऽपि वर्जनार्थ इत्येके / वृअन्ति, ववर्ज / घञि वर्गः //