________________ अब 7 ] धातुपारायणे रुधादयः (6) अथ जान्तोऽनिट् च // ' 4 युनूंपी योगे' / युङ्क्ते, युनक्ति, युयुजे, युयोज / ऋदिवाद् वाऽङि अयुजत् , अयोक्षीत् / आत्मनेपदे तु “धुड्०" 4 / 3 / 70 इति सिज्लुकि अयुक्त / " उत्स्वराद्० " 3 / 3 / 26 इत्यात्मनेपदे उद्युक्ते, प्रयुङ्क्ते, नेह, द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति / यज्ञे यद् यज्ञपात्रं तद्विषयस्यैव युज्यर्थस्य वर्जनाद् इह आत्मनेपदम् एष, न्धने यज्ञपात्रं प्रयुक्ते, यज्ञे रन्धनपात्रं प्रयुङ्क्ते / अनुस्वारेवान्नेट् , योक्ता, योक्तुम् , वियुक्तः / युजिंच समाधौ [ 3 / 111 ], युज्यते // '5 भिदंपी विदारणे' / भिन्ते, भिनत्ति, विभिदे, विभेद / ऋदित्वाद् वाऽङि अभिदत् , अभेत्सीत् / आत्मनेपदे तु “धुड्०" 4 / 370 इति सिज्लुकि अमित्त / अनुस्वारेवान्नेट , भेत्ता, भेत्तुम् / “रदाद०" 4 / 2 / 69 इति क्तयोस्तस्य नत्वे भिन्नः, भिन्नवान् / भित्तं शकलम् [ 4 / 2 / 81], भिन्नम् अन्यत् / “कुप्यभिद्य०" 5 / 1 / 39 इति क्यपि निपातनाद् भिनत्ति कूलानि इति भिद्यो नदः / "कर्मणोऽण" 5 / 1 / 72 इत्यणि काष्ठभेदः / " असरूपो०" 5 / 1 / 16 इति क्विपि काष्ठभित् / " वेत्ति" 5 / 2175 इति किति घुरे भिद्यते स्वयमेव भिदुरं काष्ठम् / भिदायङि भिदा विदारणम् , भित्तिः अन्या / उणादौ " कृतिपुति" ( उ० 76) इति किति तिके भित्तिका कुड्यम् / " विहाविशा०" (उ० 354 ) इति कर्मकर्तरि केलिमः, भिदेलिमं काष्ठम् / " ऋज्यजि०" ( उ० 388 ) इति किति रे भिद्रम् अदृढम् / “शुषीषि० " ( उ० 416) इति किति इरे भिदिरः अशनिः / " नाम्युपान्त्य० " ( उ० 609) इति किद् :, भिदिः वज्रम् // '6 छिपी द्वैधीकरणे' / अद्वैधस्य पृथक्त्वे / छिन्ते, छिनत्ति, चिच्छदे, चिच्छेद / ऋदिवाद् वाऽङि अच्छिदत् , अच्छत्सीत् / आत्मनेपदे तु " धुड्०" 4 / 3 / 70 इति सिज्लुकि अच्छित्त / अनुस्वारेच्चान्नेट् , छेत्ता, छेत्तुम् , छिमः / क्विपि रज्जुच्छित् / "वेत्ति०" 5 / 2 / 75 इति किति घुरे छिदुरा रज्जुः / मिदायडि छिदा द्वैधीभावः / छिसिः विच्छित्तिश्चाऽम्या / उणादौ "ऋज्यजि." (उ० 388 ) इति किति रे छिद्रम् / “शुपीषि० ". ( उ० 416 ) इति किति इरे छिदिरः उन्दुरः / छिदिरं शस्त्रम् / “नाम्युपान्त्य०" (उ० 609) इति किद् इ:, छिदिः छेत्ता परशुश्च // '7 क्षुदंपी संपेषे' / क्षुन्ते, क्षुणत्ति, चुक्षुदे, चुक्षोद / ऋदिवाद् वाडि अक्षुदत् , अक्षौत्सीत् / आत्मनेपदे तु " धुड्० " 4 / 370 इति सिज्लुकि अक्षुत्त / ..