________________ 158 ] धातुपारायणे तुदादयः (5) [ 277 अथ जान्ताश्चत्वारः // '154 ओविजैति भयचलनयोः' / उद्विजते, उद्विविजे / " विजेस्टि" 4 / 3 / 18 इति इटः ङित्वाद् न गुणः, उद्विजिता, उद्विजितुम् / ऐदित्वात् क्तयोनेंट , विग्नः, विग्नवान् ; ओदित्वात् " सूयत्यादि०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वम् / गौ क्ते उद्वेजित: / " व्यअनाद्०" 5 / 3 / 132 इति करणे घजि वेगः / / 155 ओलजेङ 156 ओलस्जेति ब्रीडे' / लजते, लेजे, लजिता / ऐदित्वात् क्तयोर्नेट् , ओदित्वात् " सूयत्यादि." 4 / 270 इति क्तयोस्तस्य नत्वे लग्नः, लग्नवान् / नादिः अयमिति 'चन्द्रः, नग्नः // 156 ओलस्जेति' / " सस्य शषौ" 11361 इति शे, तस्य " तृतीयस्तृतीय०" 113 / 49 इति जे लज्जते, ललज्जे, लज्जिता, लज्जितुम् / ऐदित्वात् क्तयोनेंटू , ओदित्वात् तस्य नत्वे “संयोगस्यादौ० " 2 / 1 / 88 इति सलुकि लग्नः, लग्नवान् / भिदाद्यङि लज्जा / उणादौ "लस्जीयि० " ( उ० 822) इति आलौ लज्जालुः / भ्वादौ युक्तपाठौ अप्येतौ प्रसिद्धथनुरोधादिह पठितौ // * 157 प्वजित् सङ्गे' / “पः सो०" 2 / 3 / 98 इति से "स्वाश्च" 2 / 3 / 45 इति षत्वे "नो व्यअनस्य०" 4 / 2 / 45 इति नलुकि परिष्वजते / परोक्षायां तु आदेः एव षत्वे " स्वोर्नवा" 4 / 3 / 22 इति परोक्षाया वा कित्त्वे परिषस्वजे, परिषस्वजे / परि-नि-विपूर्वस्य " स्तुस्वाश्च० " 2 / 3 / 49 इति अड्व्यवाये वा पत्वे पर्यष्वजत, पर्यस्वजत; न्यध्वजत, न्यस्वजत; व्यष्वजत, व्यस्वजत / अनुस्वारेच्चान्नेट् , स्वता, स्वङ्कतुम् , परिष्वक्तः / नत्रा निर्दिष्टस्य अनित्यत्वाद् इटि अस्वञ्जिष्ट / " जनशो० " 4 / 3 / 23 इति क्त्वः वा किल्वे स्वत्वा, स्वङ्क्त्वा / घत्रि परिष्वङ्गः, क्तौ स्वक्तिः, परिष्वक्तिः // अथ षान्तः सेट च // __ 158 जुपैति प्रीतिसेवनयोः'। जुषते, जुजुषे, जोषिता, जोषितुम् / ऐदित्वात् क्तयोर्नेट् , जुष्टः, जुष्टवान् / " दृवृग्० " 5 / 1 / 40 इति क्यपि जुष्यः / क्विपि “सजुषः" 2 / 1173 इति निर्देशात् सहस्य से, सस्य रुत्वे सजू: सजुषौ / जुषण परितर्कणे [ 9 / 411 ], " युजादेः०" 3 / 4 / 18 इति वा णिचि जोषयति जोषति // इत्याचार्य श्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे __तिच्छविकरणस्तुदादिगणः संपूर्णः // 1. मुद्रिते चान्द्रधातुपाठे तु ओलजी (6 / 100) इत्येव पठ्यते / (क्षो. त. टि. पृ. 235) /