________________ 276 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 149 अथोदन्तः सेट् च // '149 कूत्' / कुवते, चुकुवे / " कुटादेः० " 3 / 4 / 17 इति णितोऽन्यस्य डिवाद् न गुणः, कुविता, कुवितुम् / किति " उवर्णात् " 4 / 4 / 58 इति नेट् , कूतः, कूतवान् , कूत्वा, आकृतम् // अथ रान्तः सेट् च // '150 गुरैति उद्यमे' / गुरते, जुगुरे / “कुटादेः " 3 / 4 / 17 इति ङित्त्वाद् न गुणः, गुरिता, गुरितुम् / ऐदित्वात् क्तयोर्नेट , गूर्णः, गूणवान् / ञ्णिति तु गुणे " वाऽपगुरो णमि" 4 / 2 / 5 इति सन्ध्यक्षरस्य वा आत्वे अपगारमपगारम् , अपगोरमपगोरम् / णौ आगोरयति / आगूरयति इति तु गूयतेः // ." वृत् कुटादिः / कुटादिः तुदाद्यन्तर्गणः वर्तितः संपूर्ण इत्यर्थः // अथ प्रकृतवर्णक्रमेण ऋदन्तास्त्रयोऽनिटश्च // 151 पंडत व्यायामे' / व्यायाम उद्योगः / " इडितः०" 3 / 3 / 22 इति आत्मनेपदे “रिः शक्या०" 4 / 3 / 110 इति रौ इयि व्याप्रियते / व्यापप्रे / अनुस्वारेवान्नेट , पर्ता, पर्तुम् , व्यापृतः / " हनृतः०" 4 / 4 / 49 इति इटि व्यापरिष्यते / घजि व्यापारः // 152 दंङत् आदरे' / आद्रियते, आदद्रे / अनुस्वारेवान्नेट् , आदर्ता, आदृतः, प्रदृतः / " हनृतः०" 4 / 4 / 49 इति इटि आदरिष्यते / "ऋस्मिपूङ०" 4 / 4 / 48 इति सनि इटि दिदरिषते / " दृवृग्० " 5 / 1140 इति क्यपि आदृत्यः / "पुरन्दर०" 511114 इति णौ खे निपातनात् पुरो दारयति पुरन्दरः शक्रः, भगन्दरः रोग / “जीण" 5 / 2 / 72 इति इनि आदरशीलः आदरी / “युवर्ण" 5 / 3 / 28 इति अलि आदरः / दर्भ इति तु "गृदृरमि०" ( उ० 327) इति भे दृणातेः / उणादौ " दृमुषि०" ( उ० 651) इति किति तौ दृतिः भस्वा / / 153 धृत् स्थाने ' / धारणे इत्यन्ये / ध्रियते, दधे / अनुस्वारेच्चान्नेट्. धर्ता, धृतः / “हनृतः०" 4 / 4 / 49 इति इटि धरिष्यते / “ऋस्मिपूङ" 4 / 4 / 49 इति सनि इटि दिधरिषते / “ऋवर्ण०" 5 / 1117 इति ध्यणि धार्यः / " न्यायावाय० " 5 / 3 / 134 इति आधारे पनि आधारः / धुंग धारणे [11887], घरते, धरति //