________________ 148 ] धातुपारायणे तुदादयः (5) [ 275 अथ पान्तः सेट् च // ' 144 डिपत् क्षेपे' / डिपति, डिडेप / “कुटादेः० " 4 / 3 / 17 इति ङिवाद् न गुणः, डिपिता, डिपितुम् / णिति तु गुणे अडेपि, डेपयति / "आसुयु०" 5 / 1 / 20 इति ध्यणि डेप्यम् / डिपच क्षेपे [ 353 ], डिप्यति, डेपिता / डिपण क्षेपे [ 9 / 101 ], डेपयति / डिपिण संघाते [9 / 264], डेपयते // __ अथ रान्तौ सेटौ च // "145 छुरत् छेदने ' / छुरति, चुच्छोर / आशिषि " कुरुच्छरः " 21166 इति दीर्घप्रतिषेधे छुर्यात् / “कुटादेः०" 4 / 3 / 17 इति ङित्त्वाद् न गुणः, छुरिता, छुरितुम् , आच्छुरितुम् / " नाम्युपान्त्य०" 5 / 1154 इति के छुरः / “तिकृतौ०" 5 / 1 / 71 इति अके छुरिका / णिति तु गुणे अच्छोरि, छोरयति // 146 स्फुरत् स्फुरणे' / चलने इत्यन्ये / स्फुरति / “निर्नेः०" 2 / 3 / 53 इति वा पत्वे निःष्फुरति, निःस्फुरति; निष्फुरति, निस्फुरति / “वे" 2 / 3 / 54 विष्फुरति, विस्फुरति / विपूर्वात् णौ " चिस्फुरोः०" 4 / 2112 इति वा सन्ध्यक्षरस्य आत्वे विष्फारयति, विष्फोरयति, विस्फारयति, विस्फोरयति / घनि " स्फुरस्फुलोः०" 4 / 2 / 4 इति आत्वे विष्फारः, विस्फारः / णवि पुस्फोर / " कुटादेः०" 4 / 3 / 17 इति णितोऽन्यस्य ङित्त्वाद् न गुणः, स्फुरिता, स्फुरितुम् , स्फुरितः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के स्फुरः, सस्फुरः / क्तौ स्फूर्तिः // अथ लान्तः सेट् च // .. 147 स्फुलत् संचये च' / चकारात् स्फुरणे / चलने इत्यन्ये / स्फुलति / " निर्ने:०" 2 / 3 / 53 इति वा पत्वे निःफुलति, निःस्फुलति; निष्फुलति, निस्फुलति / " वेः" 2354 विष्फुलति, विस्फुलति / घनि " स्फुरस्फलोः०" 4 / 2 / 4 इति सन्ध्यक्षरस्य आत्वे विष्फालः, विस्फालः / विपूर्वात् णिगि विष्फोलयति विस्फोलयति / णितोऽन्यस्य " कुटादेः" 4 / 3 / 17 इति ङिच्वात् न गुणः, स्फुलिष्यति, स्फुलितः / उणादौ "स्फुलिकलि०" ( उ० 102 ) इति इङ्गकि स्फुलिङ्गः / / . . अथ आत्मनेपदिषु उदन्तोऽनिट् च // . 148 कुंङ् 149 कूङ्त् शब्दे' / कुवते, चुकुवे / यङि चोकूयते / " कुटादेः०" 4 / 3 / 17 इति णितोऽन्यस्य ङिचाद् न गुणः, अनुस्वारेचान्नेट् , कुता, कुतम् , कुतः //