________________ 274 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 132"132 जुडत् बन्धे' / जुडति, जुजोड / " कुटादे:०" 4 / 3 / 17 इति ङित्त्वाद् न गुणः, जुडिता, जुडितम् / णिति तु गुणे अजोडि, जोडयति / जुडत् गतौ [ 5 / 42 ], जोडिता, जोडितुम् // '133 तुडत् 'तोडने' / तोडनं भेदः / तुडति, तुतोड / “कुटादेः०" 4 / 3 / 17 इति ङित्वाद् गुणाभावे तुडिता, तुडितुम् / णिति तु गुणे अतोडि, तोडयति / उणादौ " नाम्युपान्त्य० " ( उ० 609) इति किद् इ., तुडिः // * 134 लुड 135 थुड 136 स्थुडत् संवरणे' / लुडति, लुलोड / थुडति, तुथोड / स्थुडति, तुस्थोड / “कुटादे:०" 4 / 3 / 17 इति ङिचाद् न गुणः, लुडिता, लुडितुम् ; थुडिता, थुडितुम् ; स्थुडिता, स्थुडितुम् / णिति तु गुणे अलोडि, लोडयति; अथोडि, थोडयति; अस्थोडि, स्थोडयति / "नाम्युपान्त्य." 5 / 1154 इति के स्थुलं पटकुटी // '137 वुडत् उत्सर्गे च'। चकारात् संवरणे / वुडति, वुवोड / " कुटादेः०" 4 / 3 / 17 इति ङिच्चाद् न गुणः, बुडिता, वुडितम् / णिति तु गुणे अवोडि, वोडयति // '138 ब्रुड 139 भ्रडत् संघाते' / संवरणेऽप्यन्ये / वडति, वुबोड / भ्रडति, बुभ्रोड / " कुटादेः" 4 / 3.17 इति ङित्त्वाद् न गुणः, बुडिता, त्रुडितुम् ; भ्रडितो, भ्रडितम् / णिति तु गुणे अनोडि, ब्रोडयति; अभ्रोडि, भ्रोडयति / / 140 दुड 141 हुड 142 त्रुडत् निमजने' / दुडति, दुदोड / हुडति, जुहोड / त्रुडति, तुत्रोड / “कुटादेः०" 4 / 3 / 17 इति ङिच्चाद् न गुणः, दुडिता दुडितुम् ; हुडिता, हुडितुम् ; त्रुडिता, त्रुडितुम् / णिति तु गुणे अदोडि, दोडयति; अहोडि, होडयति; अत्रोडि, त्रोडयति / घनि दोड:, लत्वे स्त्रियामापि दोला3B होडः / उणादौ " नाम्युपान्त्य० " ( उ० 609) इति किद् इ., हुडिः / "पृकाहृषि०" ( उ० 729) इति किद् उः, हुडुः मेषः / हुडिः संघातेऽपि इत्यन्ये / / __ अथ णान्तः सेट् च // '143 चुणत् छेदने' / चुणति, चुचोण / “कुटादे:०" 4 / 3 / 17 इति डिवाद् न गुणः, चुणिता, चुणितुम् / णिति तु गुणे अचोणि, चोणयति // 1. तोडते इति मु० //