________________ 131 ] धातुपारायणे तुदादयः (5) [ 273 णौ स्फोटयति / “नाम्युपान्त्य०" 5 / 1 / 54 इति के स्फुटः / स्फुट विसरणे [11209], स्फोटति, अस्फुटत् , अस्फोटीत् / स्फुटि विकसने [ 11669 ], स्फोटते // '127 पुट 128 लुठत् संश्लेषणे' / पुटति / “कुटादेः० " 4 / 3.17 इति ङित्वाद् गुणाभावे पुटिता, पुटितुम् / " नाम्युपान्त्य० " 5 / 1 / 54 इति के पुटः / “जातेरयान्त०" 2 / 4 / 54 इति ङ्यां पुटी / णिति तु गुणे घजि पोटा, णौ अचि वा / पुटण संचूर्णने भासार्थो वा [ 9 / 35, 213 ], पोटयति // अथ ठान्तः सेट् च // ' 128 लुठत् ' / लुठति, लुलोठ / " कुटादे:०" 4 / 3 / 17 इति डिच्चाद् न गुणः, लुठिता, लुठितुम् / णिति तु गुणे अलोठि लोठयति / डान्तोऽयमित्यन्ये, लुडति, लुलोड, लुडिता / लुठ उपघाते [ 1 / 220 ], लोठति / लुठि प्रतीघाते [ 1 / 942]; लोठते // अथ डान्ताश्चतुर्दश सेटश्च // 129 कुडत् घसने ' / घसनं भक्षणम् / घनत्वे इत्यन्ये, घनत्वं सान्द्रत्वम् / कृडति, चकर्ड / “कुटादेः०” 4 / 3 / 17 इति ङित्वाद् न गुणः, कृडिता, कृडितुम् / णिति तु गुणे अर्डि, कर्डयति // * 130 कुडत् बाल्ये च'। चकाराद् घसने / कुडति, चुकोड / "कुटादेः०" 4 / 3 / 17 इति ङित्वाद् न गुणः, कुडिता, कुडितुम् / णिति तु गुणे अकोडि, कोडयति / उणादौ " पतितमि० " ( उ० 98 ) इति अङ्गे कुडङ्गः / “कितिकुडि 0" ( उ० 518) इति अवे कुडवः मानम् ; लत्वे कुलवः / कुडुङ दाहे [ 11690 ], कुण्डते / कुडुण रक्षणे [ 9 / 63 ]. कुण्डयति // ___131 गुडत् रक्षायाम् ' / गुडति, जुगोड / “कुटादेः०” 4 / 3 / 17 इति ङित्वाद् न गुणः, गुडिता, गुडितुम् / " नाम्युपान्त्य०" 5 / 1 / 54 इति के गुडः, स्त्रियामापि गुडा हस्तिसंनाहः / " तिकृतौ० " 5 / 1 / 71 इति अके लत्वे च गुलिका, गुडाद् वा हु स्वार्थे कपि / णिति तु गुणे अगोडि / णके गोलकं युग्मम् / घनि भूगोलः / गुडण् वेष्टने च [ 9 / 64 ], गुण्डयति // 35