________________ 272] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 119 अथ जान्तः सेट् च // '119 गुजत् शब्दे' / गुजति, जुगोज / " कुटादेः " 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे गुजिता, गुजितुम् , गुजितः, अगुजीत् / गिति तु ङित्त्वाभावाद् गुणे अगोजि, गोजयति / गुज अव्यक्ते शब्दे [ 13152 ], गोजति // अथ तान्ता अष्टौ सेटश्च // 120 घुटत् प्रतीपाते' / घुटति, जुघोट / “कुटादेः " 4 / 3 / 17 इति डित्त्वाद् गुणाभावे घुटिता, घुटितुम् , घुटितः / “तिकृतौ० " 5 / 171 इति अके घुटिका गुल्फास्थि / णिति तु डिवाभावाद् गुणे अघोटि, घोटकः / गादिः डान्तश्चायमित्यन्ये, गुडति / " नाम्युपान्त्य" 5 / 1154 इति के अयोगुडः // . 121 चुट 122 छुट 123 त्रुटत् छेदने' / चुटति, चुचोट " कुटादेः०" 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे चुटिता, चुटितम् / णिति तु 'ङिवाभावाद् गुणे पनि चोटः / गौ नन्द्याधने उच्चोटनः / णके चोटकः // ____ 122 छुट ' / छुटति, चुच्छोट / " कुटादे:०" 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे छुटिता, छुटितुम् / णिति तु डिवाभावाद् गुणे अच्छोटि / भावे इति णके छोटिका / णौ छोटयति // '123 त्रुटत् / / " भ्रासम्लास." 4 / 2 / 36 इति वा श्ये त्रुट्यति, त्रुटति, तुत्रोट / “कुटादेः०" 4 / 3 / 17 इति ङिचाद् गुणाभावे त्रुटिता, त्रुटितुम् / णिति तु डिवाभावाद् गुणे अत्रोटि, त्रोटकः, त्रोटयति / उणादौ ." किलिपिलि." (उ० 608) इति णौ इ., त्रोटिः // * 124 तुटत् कलहकर्मणि' / तुटति, तुतोट / " कुटादेः० " 4 / 3 / 17 इति ङित्त्वाद् गुणाभावे तुटिता, तुटितुम् / णिति तु गुणे अतोटि / णके तोटकम् / उणादौ " नाम्युपान्त्य०" ( उ० 609 ) इति किद् इः, तुटिः // ___ 125 मुटत् आक्षेपप्रमर्दनयोः' / मुटति, मुमोट / " कुटादेः० " 4 / 3 / 17 इति हित्वाद् गुणाभावे मुटिता, मुटितुम् / णिति तु गुणे अमोटि / णौ मोटयति / णके आमोटकः / मुट प्रमर्दने [ 1 / 202], मोटति / मुटण संचूर्णने [ 9 / 36 ], मोटयति // ___ '126 स्फुटत् विकसने ' / स्फुटति, पुस्फोट / " कुटादेः० " 4 / 3 / 17 इति डिवाद् गुणाभावे अस्फुटीत् , स्फुटिता, स्फुटितुम् / णिति तु गुणे स्फोटः /