________________ 109 ] धातुपारायणे तुदादयः (5) क्तयोर्नेट् , ऋष्टः, ऋष्टवान् / “ऋदुपान्त्या०" 5 / 1141 इति क्यपि ऋष्यः / उणादौ "ऋषिवृषि०" ( उ० 321 ) इति किति अमे ऋषभः / "ऋजिरिषि०" (उ० 567) इति किति से ऋक्षः / " नाम्युपान्त्य०" (उ० 609) इति किदिः, ऋषिः / " दृमुषि०" ( उ० 651 ) इति किति तौ ऋष्टिः खड्गः // . 105 इषत् इच्छायाम्' / " गमिषद्य० // 4 / 2 / 106 इति छे इच्छति / इयेष, एषिष्यति / तादौ " सहलुभे०" 4 / 4 / 46 इति वेटि एष्टा, एषिता, इष्ट्वा / " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे एषित्वा / वेट्त्वात् क्तयोर्नेट , इष्टः, इष्टवान् / “ऋवर्ण०" 5 / 1 / 17 इति ध्यणि एष्यः / " प्रष्यपैष्यो०" 02 / 14 इति ऐत्वे प्रैष्यः / " विन्द्विच्छू० " 5 / 2 / 34 इति निपातनात् उः, एषणशीलः इच्छुः / " नाम्युपान्त्य०" 5 / 154 इति के इषः आश्वयुजः / “श्चादिभ्यः" 5 / 3 / 92 इति क्तौ इष्यते अनया इति इष्टिः / “मृगये." 5 / 3 / 101 इति निपातनात् शे इच्छा / "करणाधारे" 5 / 3 / 129 इति अनटि एषणः / स्त्रियां गौरादित्वाद् ड्याम् एषणी वैद्यशलाका / "क्रुत्संपदा०" 5 / 3 / 124 इति क्विपि इट् / उणादौ " इष्यशि० " ( उ० 77) इति तककि इष्टका / " मस्जीष्य" ( उ० 826 ) इति सुकि इक्षुः / इषच गतौ [3 / 25], अन्विष्यति / इशष् आमीक्ष्ण्ये [ 8152 ], इष्णाति // .. '106 मिषत् स्पर्धायाम्' / मिषति, मिमेष, मेषिता, उन्मिषितम् / " नाम्युपान्त्य०" 51154 इति के अनिमिषः देवः / आमिषम् / लिहायचि - मेषः / घनि निमेषः, उन्मेषः / / अथ हान्ताः पञ्च सेटश्च // 107 वृहौत् उद्यमे' / उद्यमः उद्धरणम् ' / वृहति, वर्ह / औदिचात् वेट , वर्हिता, वर्दा / वेदत्वात् क्तयोर्नेट् , बृढः, परिवृढः, वृढवान् / घनि उद्वहः, वहः। वृह वृद्धौ [ 11558 ], वर्हति // '108 तृहौ 109 तहौ 110 स्तृहौ 111 स्तहोत् हिंसायाम् / तहति, ततर्ह / औदिचाद् वेट् , अतीत् / " हशिटो०" 3455 इति सकि अतृक्षत् / तर्हिता, तर्दा / वेट्त्वात् क्तयोर्नेट् , आवृढः, आतृढवान् // . 109 तहो' / “नो व्यञ्जनस्या०" 4 / 2 / 45 इति नलुकि तहति / तह / औदित्वाद् वेट् , अतुंहीत् , अताङ्क्षीत् / तूंहिता, तृण्ढा / वेट्त्वात् . क्तयोर्नेट् , “नो व्यञ्जनस्या०" 4 / 2 / 45 इति नलुकि तृढः, तृढवान् //