________________ 268] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 99" 99 रु 100 रिशंत् हिंसायाम् ' / रुशति, रुरोश / " हशिटो." 3 / 4 / 55 इति सकि अरुक्षत् / अनुस्वारेचान्नेट् , रोष्टा, रुष्टः // '100 रिशंत्' / रिशति, रिरेश / " हशिटो०" 3 / 4 / 55 इति सकि अरिक्षत् / अनुस्वारेचान्नेट् , रेष्टा, रिष्टः / / '101 विशंत् प्रवेशने' / विशति / " निविशः " 3 / 3 / 24 इति आत्मनेपदे “वाऽभिनिविशः" 2 / 2 / 22 इति आधारस्य कर्मत्वे ग्रामममिनिविशते / विवेश / " हशिटो. " 3455 इति सकि अविक्षत् / अनुस्वारेवान्नेट् , वेष्टा, प्रविष्टः / क्वसौ “गमहन० " 4 / 4 / 83 इति वेटि विविशिवान् , विविश्वान् / " पदरुज.०" 5 / 3 / 16 इति पनि वेशः वेश्यावाटः / “अजातेः शीले " 5 / 1 / 154 इति णिनि संवेशी / " विशपत० " 54 / 81 इति णमि गेहानुप्रवेशमास्ते, गेहं गेहमनुप्रवेशमास्ते / उणादौ " विशिभ्यां०" ( उ० 219) इति अन्ते वेशन्त: पल्वलम् / “विष्टपोलप० " ( उ० 307) इति अपे निपातनात् विष्टपं जगत् / “विशेरिपक" ( उ० 309) विशपः राशिः / “निघृषी०" ( उ० 511) इति किति वे विश्वम् // '102 मृशंत् आमर्शने' / आमर्शनं स्पर्शः / मृशति, परामृशति, ममर्श / “स्पृशमृश०" 3 / 4 / 54 इति वा सिचि " स्पृशादि०" 4 / 4 / 112 इति स्वरात्परे वा अति " अनानाम् " 4 / 3 / 45 इति वृद्धौ अम्राक्षीत् , अमार्सीत् ; पक्षे " हशिटो. " 3 / 4 / 55 इति सकि अमृक्षत् / अनुस्वारेवान्नेट् , भ्रष्टा, मर्टा, मृष्टः / “ऋदुपान्त्याद०" 5 / 1141 इति क्यपि मृश्यम् / उणादौ " युयुजि०" ( उ० 277) इति किति आने मृशानः // '103 लिशं 104 ऋषत् गतौ' / लिशति, लिलेश / " हशिटो." 3 / 4 / 55 इति सकि अलिक्षत् / अनुस्वारेचान्नेट् , लेष्टा, लिष्ट: / घजि लेशः / लिशिंच अल्पत्वे [ 33134 ], लिश्यते // अथ षान्तास्त्रयः सेटश्च // * 104 ऋषैत्' / ऋष्यति / "ऋत्यारुपसर्गस्य" 112 / 9 इति आरि प्रापति, परार्षति / " अनातो." 4 / 1 / 69 इति पूर्वस्य आत्वे नेऽन्ते च आनर्ष, आनृपतुः / अर्षिता / “क्त्वा" 4 / 3 / 29 इति 'किवाभावे अर्षित्वा / ऐदित्वात् 1. कित्त्वत्त्वाभावे इति मु० //