________________ 98 ] धातुपारायणे तुदादयः (4) [ 267 [1972 ], बलादित्वाद् वा णे चालः चला; "इयशवः" 2 / 1 / 116 इति नित्यमन्तादेशे चलन्ती स्त्री कुले वा; णौ घटादित्वाद् ह्रस्वे चलयति / चलण भृतौ [9 / 134 ], चालयति // " 93 चिलत् वसने ' / चिलति, चिवेल, चेलिता / लिहायचि चेलम् // '94 विलत् वरणे' / 'दन्त्यौष्ठयादिः / विलति, विवेल, वेलिता / घत्रि आवेलः / गौ अचि वेला // 95 बिलत भेदने / ओष्ठयादिः / बिलति, बिबेल, वेलिता / " नाम्युपान्त्य.. " 5 / 1154 इति के विलम् , आबिलम् / उणादौ "विलिभिलि०" ( उ० 340) इति किति ने 'विल्म प्रकाशम् / “निघृषी०" (उ० 511) इति किति वे 'बिल्वम् / विलाल इति तु विडालस्य लत्वे // '९६.णिलत गहने' / “पाठे." 22377 इति णस्य नत्वे निलति / णोपदेशत्वाद् " अदुरुपसर्गा०" 2 / 3 / 67 इति नस्य णत्वे प्रणिलति / निनेल, नेलिता // '97 मिलत् श्लेषणे'। मिलति, मिमेल, मेलिता, मिलितः / लिहायचि मेला // अथ शान्ताः षडनिटश्च // - '98 स्पृशंत् संस्पर्शे' / स्पृशति, पस्पर्श / “स्पृशमृश०" 3454 इति वा सिचि "स्पृशादि०" 4 / 4 / 112 इति वा स्वरात्परः अ, अस्पाक्षीत् , अस्पार्टात् ; पक्षे " हशिटो. " 3 / 455 इति सकि अस्पृक्षत् / अनुस्वारेचानेट , स्पष्टा, स्पर्टी, स्पृष्टः / " पदरुज०" 5 / 3 / 16 इति कर्तरि घनि स्पर्शः व्याधिः / "स्पृशोऽनुदकात् " 5 / 11149 इति क्विपि “ऋत्विज-दिश० " 2 / 1169 इति शस्य पापवादे गे घृतस्पृक; उदकात्तु " कर्मणोऽण " 5 / 1 / 72 इति अणि उदकस्पर्शः / उणादौ "स्पृशेः श्वः पार च" ( उ० 523) इति श्वे पार्श्वम् / पशुः इति तु "प्रः शुः" ( उ० 825) इति शौ " उतोऽप्राणिनश्चा" 26473 इति ऊङि च पणातेः // 1. दन्त्यों इति मु० // 2. विलत् वरणे, विल्म प्रकाशः इति उ. वि. // 3. बिल्वः मालुरः इति उ. वि. / मालूर: श्रीफलो बिल्व: / (अ.चिं 41201 ) //