________________ 266 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० ८५अथ लान्तास्त्रयोदश सेटश्च // '85 स्फलत् ' / स्फलति, पस्फाल, स्फलिता / णौ ते आस्फालितः / अनटि आस्फालनम् / कुटादिरयमित्येके, तत्पाठवलाच्च णके वृद्धयभावे स्फलकः // ___86 किलत श्वैत्य क्रीडनयोः'। किलात. चिकेल, केलिता, किलितः / उणादौ " किलेः कित्" ( उ० 575 ) इति आसे किलासः सिध्मम् / किलाट इति तु किरः " किरो लश्च वा" (उ० 147) इति आटे 'किरतेः / " इदुदुपान्त्याभ्यां०" ( उ० 17) इति किदः, सरूपद्वित्वं पूर्वस्य चेदन्तः, किलिकिल: अनुकरणशब्दः / " बहुलं गुणवृद्धी चादेः" (उ० 19) इति पूर्वस्य गुणवृद्धयोश्च केलिकिलः, कैलिकिलश्च हासशील: / " किलिपिलि." (उ० 608) इति औ केलिः // 87 इलत गतिस्वप्नक्षेपणेषु' / इलति, इयेल, एलिता / "नाम्युपान्त्य." 5 / 154 इति के इला / लिहायचि पत्रि वा एलः / स्त्रियाम् एला / णौ एलयति // 88 हिलत् हावकरणे' / हिलति, जिहेल, हेलिता / णौ अचि हेला / उणादौ " इदुदुपान्त्याभ्यां०" (उ० 17) इति किद् अ:, स्वरूपद्वित्वं पूर्वस्य चेदन्तः, हिलिहिलः अनुकरणशब्दः / बहुलं “गुणवृद्धी चादेः" (उ० 19) हेलिहिलः, हैलिहिलश्च विलासशीलः // ' 89 शिल 90 सिलत् उञ्छे' / शिलति, शिशेल, शेलिता, शिलितः / '" नाम्युपान्त्य० " 5 / 1 / 54 इति के शिलम् / स्त्रियामापि शिला / शेलुः इति तु शेतेः लौ // - '90 सिलत् / सिलति / अपोपदेशत्वात् षत्वाभावे सिसेल / पोपदेशोऽयमित्येके, तन्मते " नाम्यन्तस्था०" 2 // 3 // 15 इति षत्वे सिषेल / सेलिता, सिलितः / " नाम्युपान्त्य" 5 / 154 इति के सिलम् // __ 91 तिलत् स्नेहने' / तिलति, तितेल, तेलिता / " नाम्युपान्त्य०" 5 / 1 / 54 इति के तिलः / तिलण स्नेहने [9 / 119 ], तेलयति / / 92 चलत् विलसने' / चलति, चचाल, चलिता; चलती, चलन्ती स्त्री कुले वा / णौ कम्पने एव घटादित्वाद् हस्वाभावे चालयती / वल कम्पने 1. किलाटः इति मु०॥