________________ 84 ] धातुपारायणे तुदादयः (5) [ 265 आशिषि कूर्यात् / अस्याऽपि न दीर्घ इत्यके, कुर्यात् / उणादौ " मृधुन्दि०" (उ० 399) इति किति अरे कुररः जलपक्षी / “कितिकुडिकुरि०" (उ० 518) इति किति अवे कुरवः वृक्षः / / '78 क्षुरत् विखनने ' / क्षुरति, चुक्षोर, क्षोरिता / " नाम्युपान्त्य." 5 / 1154 इति के शुरः // '79 खुरत् छेदने च' / छेदनं विलेखनम् / चकारात विखनने / खुरति, चुखोर, खोरिता / " नाम्युपान्त्य० " 51154 इति के खुरः / क्रोडादित्वाद् " असहनञ्" / 4 / 38 इति ङयभावे कल्याणखुरा // ____80 घुरत् भीमार्थशब्दयोः' / घुरति, जुघोर, घोरिता / घनि घोरः / उणादौ " इदुदुपान्त्याभ्यां०" (उ० 17) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः, घुरघुरः / " जजल० " (उ. 18) इत्यादि निपातनात् पूर्वस्य उदभावे घुघुरः अनुकरणशब्दौ // '81 पुरत अग्रगमने' / पुरति, पुपोर, पोरिता, पुरितः / “नाम्युपान्त्य." 5 / 1 / 54 इति के पुरम् / विपि पू: / पुरुष इति तु “विदिपृभ्यां०" (उ० 558) इति किति उषे पृणातेः / पुरुः इत्यपि अस्यैव " पृकाहषि०" (उ० 729 ) इति किति औ // '82 मुरत् संवेष्टने ' / मुरति, मुमोर, मोरिता, मुरितः / “नाम्युपान्त्य०" * 5 / 1154 इति के मुरः / उणादौ " इदुदुपान्त्याभ्यां०" (उ० 17) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः, मुरुमुरः अनुकरणशब्दः / " जजल." (उ० 18) इत्यादि निपातनात् पूर्वस्य उदभावे मुमुरः // ___ '83 सुरत् ऐश्वर्यदीप्त्योः ' / सुरति / अपोपदेशत्वात् पत्वाभावे सुसोर / पोपदेशोऽयमित्यके, तन्मते " नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे सुपोर / सोरिता / " नाम्युपान्त्य० " 5 / 1 / 54 इति के सुरः देवः, सुरा मद्यम् / उणादौ " इदुदुपान्त्याभ्यां " ( उ० 17) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः सुरुसुरः अनुकरणशब्द: // '84 स्फर 85 स्फलत् स्फुरणे' / चलने इत्येके / स्फरति, पस्फार, स्फरिता / अचि स्फरः / कुटादिरयमित्यन्ये, तत्पाठवलाच णके वृद्धयमावे स्फरकः। घजि स्फारः //