________________ 264 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 70 '70 गुम्फत् / “नो व्यअनस्या० " 4 / 2 / 45 इति नलुकि गुफति / जुगुम्फ, गुम्फिता / " ऋत्तृष०" 4 / 3 / 24 इति क्त्वः वा कित्वे गुफित्वा, गुम्फित्वा / / ___ अथ भान्ताः षट सेटश्च // '71 उभ 72 उम्भत् पूरणे' / " मुचादि०" 4 / 4 / 99 इति ने उम्भति / उवोभ, उमिता, उभितः / “नाम्युपान्त्य" 5 / 1 / 54 इति के उभौ / उणादौ " उभेत्रौ च" (उ० 615) इति औ द्वौ, त्रयः // 72 उम्भत्' / “नो व्यअनस्या०" 4 / 2 / 45 इति नलुकि उमति / " गुरुनाम्यादेः" 3 / 4 / 48 इति परोक्षाया आमि उम्भाश्चकार / उम्भिता, उम्भित्वा॥ '73 शुभ 74 शुम्भत् शोभार्थे ' / “मुचादि०" 4 / 4 / 99 इति ने शुम्भति / शुशोभ, अशोभीत् , शोभिता / " नाम्युपान्त्य०" 5 / 154 इति के शुभम् / भिदायङि निपातनात् शोभा / उणादौ " ऋज्यजि०" ( उ० 388 ) इति किति रे शुभ्रम् / शुभि दीप्तौ [11947 ], शोभते, " युद्भ्योऽद्यतन्याम् " 3 / 3 / 44 इति वा आत्मनेपदे अशोभिष्टः पक्षे " शेषात्" 33 / 100 इति परस्मैपदे द्युतायङि अशुभत् // '74 शुम्भत्' / " नो व्यञ्जनस्या०" 4 / 2 / 45 इति नलुकि शुभति / शुशुम्भ, शुम्भिता, शुम्भित्वा / शुम्भ भाषणे च [11377 ], इत्यर्थभेदात्पाठः, शुम्भति / भ्वादौ सुम्भ निशुम्भनाद्यर्थों दन्त्यादिरित्येके // 75 दृभैत् ग्रन्थे / दभति, ददर्भ, दर्भिता / " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे दर्भित्वा / ऐदित्वाक्तयोर्नेट् , दृब्धः, दृब्धवान् / घञि सन्दर्भः / उणादौ " दृभिचपेः स्वरान्नोऽन्तश्च" (उ० 841) इति ऊः, दृम्भूः सर्पः // '76 लुभत् विमोहने'। विमोहनं व्याकुलीकरणम् / लुभति, लुलोभ / " सहलुभेच्छ०" 4 / 4 / 46 इति वेटि लोब्धा, लोभिता / " लुभ्यश्च० " 4 / 4 / 44 इति क्तयोरिटि विलुभिताः केशाः, विलुमितवान् / धातूनामनेकार्थत्वाद् विमोहादन्यत्र वेटत्वान्नेट् , लुब्धः, लुब्धवान् / लुभच् गाद्धर्थे [ 3155 ], लुभ्यति, अलुभत् / / __ अथ रान्ता अष्टौ सेटश्च // ' 77 कुरत् शब्दे ' / कुरति, चुकोर, कोरिता, कुरितः / “.कुरुच्छर: " 2 / 1 / 66 इत्यत्र कृग एव ग्रहणात् " भ्वादे:०" 2 / 1 / 63 इति दीघे कूर्यते,