________________ 70 ] धातुपारायणे तुदादय (5) [ 263 अथ फान्ता नव सेटश्च // '62 रिफत् कथन-युद्ध-हिंसादानेषु'। रिफति, रिरेफ, रेफिता, रिफितः / न्युपान्त्य इति व्यावृत्तिबलाद् "ऋत्तपमृष०" 4 / 3 / 24 इति “वौ व्यञ्जनादेः०" 4 / 3 / 25 इति च वा किवाभावे " क्त्वा" 4 / 3 / 29 इति नित्यमकित्त्वे रेफित्वा / स्वरादिरयमित्येके, ऋफति; णौ अर्फयति // '63 तुफ 64 तुम्फत् तृप्तौ' / " मुचादि०" 4 / 4 / 99 इति ने विधानबलाद् “नो व्यञ्जनस्या०" 4 / 2 / 45 इति नस्याऽलुकि तुम्फति / ततर्फ, तर्फिता, तृफिन्वा, तृफितः / “ऋदुपान्त्याद्" 5 / 1 / 41 इति क्यपि तृफयः // '64 तृम्फत् ' / “नो व्यञ्जनस्या०" 4 / 2 / 45 इति नलुकि तृफति / ततम्फ, तम्झिता, तृफितः / “ऋत्तष" 4 / 3 / 24 इति क्त्वः वा कित्वे तृफित्वा तृम्फित्वा / पान्तौ एतौ इत्यन्ये तृपति शे नलुक् च नेष्यते तृम्पति // '65 ऋफ 66 ऋम्फत् हिंसायाम् ' / ऋफति / " अनातो." 41169 इति पूर्वस्य आत्वे ने च आनर्फ, आनृफतुः; अर्पिता, ऋफितः / सनि अर्पिफिषति / "क्त्वा" 4 / 3 / 29 इति किवाभावे अफित्वा / “ऋदुपान्त्याद०" 5 / 1141 इति क्यपि ऋफयः // '66 ऋम्फत् ' / “नो व्यचनस्या०" 4 / 2 / 45 इति नलुकि ऋफति / नलोपं नेच्छन्ति एके, ऋम्फति / " अनातो." 41161 इति पूर्वस्य आत्वे ने च आनृम्फ / ऋम्फिता, ऋफितः / "ऋत्तष" 4 / 3 / 24 इति क्त्वः वा किन्वे ऋफित्वा, ऋम्फित्वा / इकागेपान्यो रादिश्चायमित्यन्यः, तन्मते शे नलोपानिष्टौ रिम्फति, रिरिम्फ // '67 दृफ 68 दम्फत् उत्क्लेशे' / " मुचादि०" 4 / 4 / 99 इति ने दम्फति / ददर्फ. दफिता, दृफितः / "क्त्वा" 4 / 3 / 29 इति किवाभावे दर्फित्वा / / 68 दम्फत् ' / “नो व्यञ्जनस्या०" 4 / 2 / 45 इति नलुकि दृफति / ददृम्फ, दृम्फिता / " ऋत्तृष०" 4 / 3 / 24 इति क्त्वः वा किन्वे दृफित्वा, दृम्फित्वा / / __ 69 गुफ 70 गुम्फत् ग्रन्थने ' / " मुचादि०" 4499 इति ने गुम्फति / जुगोफ, गोफिता, गुफितः / “क्त्वा" 4 / 3 / 29 इति किवाभावे गोफित्वा / न्युपान्त्य इति व्यावृत्तिवलाद् “ऋत्तृष० " 4 / 3 / 24 इति “वौ व्यअनादेः०" 4 / 3 / 25 इति चात्र वा न किचम् //