________________ 262] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 56 अथ दान्तावनिटौ च // '56 णुदत् प्रेरणे' / " पाठे० " 2 / 3 / 97 इति णस्य ने नुदति / णोपदेशत्वाद् " अदुरुपसर्गा० " 2 / 3177 इति णत्वे प्रणुदति / नुनोद / अनुस्वारेवान्नेट् , नोत्ता / "ऋहीघा." 4 / 276 इति क्तयोस्तस्य वा नत्वे नुन्नः, नुन्नवान् ; नुत्तः, नुत्तवान् / “शोकापनुद." 5 / 1 / 143 इति के निपातनात् शोकापनुदः पुत्रः / घजि प्रणोदः नुदती, नुदन्ती स्त्री कुले वा / ईदिदयमित्येके, तन्मते "ईगितः" 33 / 95 इति फलवकर्तरि आत्मनेपदे नुदते, नुनुदे / उणादौ " ग्लानुदिभ्यां डौः" ( उ० 868) नौः // '57 षद्लत अवसादने' / “श्रौति०" 4 / 2 / 108 इति . सीदादेशे, सीदति, ससाद / लदिचादङि असदत् / षोपदेशत्वाद् " नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे सिपत्सति / ज्वलादिपठितेनैव सिद्ध इहाऽस्य पाठः “अवर्णादश्नो० " 2 / 1 / 115 इति वाऽन्तादेशार्थः, सीदती, सीदन्ती स्त्री कुले वा / ज्वलादिपाठोऽपि " वा ज्वलादि०" 5 / 1 / 62 इति णविकल्पार्थः सादः, सदः। अनुस्वारेवान्नेट् , सत्ता / शलंत शातने इति तु न पठितव्य एव, शित्यात्मनेपदित्वेन शतुरभावेऽन्तादेशविकल्पाप्राप्तः, अशदत् इत्यादेस्तु तेनैव सिद्धेः // अथ धान्तः सेट च // '58 विधत् विधाने ' / विधति, विवेध, विधितः, विधितवान् / “वौ व्यअनादेः०" 4 / 3 / 25 इति कृत्वासनोर्वा किल्वे विधित्वा, वेधित्वा; विविधिषति, विवेधिषति / " नाम्युपान्त्य०" 5 / 1 / 54 इति के विधः / उणादौ "विधेर्वा" ( उ० 972 ) इति वा किति असि विधाः, वेधाश्च ब्रह्मा // अथ नान्तौ सेटौ च // '59 जुन 60 शुनत् गतौ' / जुनति, जुजोन, जोनिता, जुनितः // '60 शुनत् ' / शुनति, शुशोन, शोनिता / " नाम्युपान्त्य०" 5 / 1 / 54 इति के शुनः वायुः / उणादौ " कीचकपेचक० " ( उ० 33) इति अके निपातनात् शुनकः // अथ पान्तोऽनिट् च // '61 छुपेत् स्पर्श' / छुपति, चुच्छोप / अनुस्वाच्चान्नेट् , छोप्ता //