________________ 55 ] धातुपारायणे तुदादय (5) [ 261 '50 'पुणत् शुभे' / शुभं शुभविषया क्रिया / पुणति, पुपोण, पोणिता, पुणितः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के पुणः निपुणः / उणादौ “सृणीकास्तीक० " ( उ० 50 ) इति ईके निपातनात् पुण्डरीकम् / “कुगुहुनि." ( उ० 170 ) इति किति डे पुण्डः मिन्नवर्णः, बाहुलकान दीर्घः / एवं कुण्डादिध्वपि / “ऋशिजनि०" ( उ० 361) इति किति ये पुण्यम् / “खुरक्षुर०" ( उ० 396) इति निपातनात् पुण्ड्रः // '51 मुणत् प्रतिज्ञाने' / मुणति, मुमोण, मोणिता, मुणितः / उणादौ "कुगुहुनी० " ( उ० 170 ) इति डे मुण्डः // 52 कुणत् शब्दोपकरणयोः' / कुणति, चुकोण, कोणिता, कुणितः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के कुणः / घजि कोणः / उणादौ “कुगुहुनी." ( उ० 170) इति किति डे कुण्डम् / “भाजगोण." 2 / 4 / 30 इति ड्यां कुण्डी अमत्रम्'; कुण्डा अन्या / "कल्यलि." ( उ० 246) इति इन्दकि कुणिन्दः म्लेच्छः / “कुलिपिलि." ( उ० 476 ) इति किति आले कुणालं नगरम् // - '53 घुण 54 घूर्णत् भ्रमणे' / घुणति, जुघोण, घोणिता, घुणित: / " नाम्युपान्त्य 0 " 5 / 1 / 54 इति के घुणः / लिहायचि घोणा // ... 54 घूर्णत्' / घूर्णति, जुघूर्ण, पूर्णिता, पूर्णितः; घूर्णती, घुर्णन्ती स्त्री कुले वा / घुणि घूर्णि भ्रमणे [ 11708-709], घोणते, घूर्णते // अथ तान्तः सेट् च // '55 चुतैत् हिंसाग्रन्थयोः' / घृतति, चचर्त, चर्तिता / सादौ 'कृतचूत" 4 / 4 / 50 इति वेट् , चय॑ति, चर्तिष्यति, चित्सति, चिचर्तिषति / असिचः इति वचनात् सिचि नित्यमिटि अचीत् / वेट्त्वाक्तयोर्नेट् , वृत्तः, वृत्तवान् ; ऐदित्वाद् यङ्लुपि अनेकस्वरादपि क्तयोनेंट , चरीवृत्तः, चरीवृत्तवान् / " ऋदुपान्त्याद०" 5 / 1 / 41 इत्यत्र चूतो वर्जनात् "ऋवर्ण० " 5 / 1 / 17 इति . 'ध्यणि चय॑म् // . 1. पुण कर्मणि शब्दे च इति क्षीरस्वामी (क्षो. त. पृ. 239 ) //