________________ 260] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 42 हो अथ डान्ताश्चत्वारः सेटश्च // '42 जुडत् गतौ' / जुडति, जुजोड, जोडिता, जुडितः / घत्रि जोडः // ' 43 पृड 44 मृडत् सुखने' / पृडति, पपई, पर्डिता, पृडितः // '44 मृडत् ' / मृडति, ममर्ड, मर्डिता, मृडितः / " क्षुधक्लिश" 4 / 3 / 31 इति क्त्वः कित्वाद् गुणाभावे मृडित्वा / " नाम्युपान्त्य०" 5 / 1 / 54 इति के मृडः; तद्भार्या तु " वरुणेन्द्र०" 2 / 4 / 62 इति ङयामानन्ते च मृडानी / / 45 कडत् मदे' / भक्षणे इत्यन्ये / कडति, चकाड / अचि कडः, लत्वे कलः / कडिता, कडित:, कडती, कडन्ती स्त्री कुले वा / केचित्तु कुटादिरयम् , कुटादित्वाच्च न वृद्धिरित्याहुः, तन्मते णके कडकः / उणादौ "कुकडी० " (उ० 321 ) इति अम्बे कडम्बः जातिविशेषः / " सपप्रथि०" ( उ० 347 ) इति अमे कडमः शालिः, लत्वे कलमः / " अग्यङ्गि० " ( उ० 405) इति आरे कडारः / “वृगनक्षि०" ( उ० 456 ) इति अत्रे कडत्रम् , लत्वे कलत्रं भार्या नितम्बश्च / "बन्धिवहि० " ( उ० 459) इति इत्रे कडिनं लेख्यचर्म / " कडेरेवराङ्गरो" ( उ० 445 ) कडेवरं मृतकायः, लत्वे कलेवरम् / कडङ्गरः बुसः / कलह इति तु कलतेः " कृपकटि०" ( उ० 589 ) इति अहे / कलिरित्यपि अस्यैव "पदिपठि०" ( उ० 607) इति औ // . अथ णान्ता नव सेटश्च // 46 पृणत् प्रीणने ' / पृणति, पपर्ण, पर्णिता, पृणितः / "नाम्युपान्त्य०" 5 / 1 / 54 इति के पृणः / " लोकम्पृण" 3 / 2 / 113 इति निपाततनान्मेऽन्ते लोकस्य पृणः लोकम्पृणः // 47 तुणत् कौटील्ये' / तुणति, तुतोण, तोणिता, तुणितः / उणादौ "कुगुहु० " ( उ० 170) इति 'किति डे तुण्डम् / बाहुलकान्न दीर्घः // 48 मृणत् हिंसायाम् ' / मृणति, ममर्ण, मर्णिता, मृणितः / उणादौ " कुलिपुलि०" ( उ० 476 ) इति किति आले मृणालं बिसम् // ___ 49 द्रुणत् गतिकौटिल्ययोश्च' / चकाराद् हिसायाम् / द्रुणति. द्रोण, द्रोणिता, द्रुणितः / " नाम्युपान्त्य० " 5 / 1 / 54 इति के द्रुणः / गौरादित्वाद् ङयां द्रुणी / घञि द्रोणः / गौरादित्वाद् ङ्यां द्रोणी // 1. किड्डे इति मु० //