________________ 41 ] धातुपारायणे तुदादयः (5) [ 259 '38 टुमस्जोत् शुद्धौ' / शुद्धया स्नानं 'ब्रुडनं च लक्ष्यते / “सस्य शषौ" 1 // 361 इति शे. " तृतीयस्तृतीय० " 1 / 3 / 49 इति शस्य जे मज्जति, ममज्ज / अनुस्वारेचान्नेट् , " मस्जेः सः" 4 / 4 / 110 इति धुटि सस्य नत्वे मङ्का / ओदित्वात् "सूयत्याद्यो०" 4 / 270 इति क्तयोस्तस्य नत्वे " नो व्यअनस्य." 4 / 2 / 45 इति नलुकि मग्नः, मग्नवान् / " जनशो०" 4 / 3 / 23 इति क्त्वः वा किच्चे मक्त्वा, मङ्क्त्वा / " ऋवर्ण०" 5 / 1 / 17 इति ध्यणि "क्तेऽनिट." 4 / 1 / 111 इति जस्य गे " तृतीयस्तृतीय०" 1 / 349 इति सस्य दे मद्ग्यः / अचि मज्जः / " नाम्न्युत्तरपदस्य० // 32 // 107 इति उदे उदके मज्जः उदमज्जः / ट्वित्त्वादथौ मज्जथुः / अनटि मजनम् / भिदायङि मज्जा / उणादौ "भृमृतृ०" (उ० 716) इति उः, उद्गादित्वात् गत्वे मद्गुः / " उक्षितक्षि०" (उ० 900) इति अनि मज्जा अस्थिसारः, मज्जानौ / मञ्जूषा इति तु मोः सौत्रस्य "खलिफलि०" ( उ० 560 ) इति ऊषे // '39 जज 40 झझत् परिभाषणे' / जर्जति, जजर्ज, जर्जिता, जर्जितः, जर्जती, जर्जन्ती स्त्री कुले वा // अथ झान्तौ सेटौ च / 40 झझन् ' / झझति, जझर्झ, झझिता, झर्शितः, झझती, झझन्ती स्त्री कुले वा / जर्जरझझरौ तु षषो " ऋतष्ठित्० " (उ० 9) इति अप्रत्यये सरूपद्वित्वे च / तर्जनेऽप्ययमित्यन्यः // 41 उद्झत उत्सर्गे'। दोपान्त्योऽयम् / “तवर्गस्य 0" 113160 इति दस्य जे उज्झति / " गुरुनाम्यादेः०" 3 / 4 / 48 इति परोक्षाया आमि उज्झाञ्चकार / उज्झिता / " न बदन० " 41115 इति दस्य प्रतिषेधात् " स्वरादेः०" 4114 इति द्वितीयांशस्य झेरेव द्वित्वे उज्झिझिषति / “कुप्यभिद्यो०" 5 / 1139 इति क्यपि निपातनाद् उज्झति उदकमिति उद्ध्यो नदः / क्विपि पदान्ते " पदस्य" 221189 इति संयोगान्तलुकि उत् , उद् / उज्झती, उज्झन्ती स्त्री कुले वा // 1. ब्रुडनं इति मु० // 2. उदि इति मु०॥ 3. भृम इति मु० //